SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ शब्दानुविद्धत्वात् । तदनुवेधपरित्यागे च प्रकाशरूपताया एवाभावप्रसङ्गात् । तदुक्तम्--- “न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइते । अनुविद्धमिव ज्ञानं सर्व शब्देन वर्तते ॥१॥ बागरूपता चेद् व्युत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥२॥" ___ सा चेयं वाक् त्रिविधा- वैखरी, मध्यमा, पश्यन्ती च । यत्र येयं स्थान-करण-प्रयत्नक्रमव्यज्यमानाकारादिवर्णसमुदायात्मिका वाक् सा 'वैखरी' इत्युच्यते । तदुक्तम्-- "स्थानेषु विधृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक् प्रयोक्तृणां पाणवृत्तिनिवन्धना ॥१॥" अस्यार्थः- स्थानेषु- ताल्वादिस्थानेषु, वायौ प्राणसंज्ञे, विधृते- अभिघातार्थं निरुद्ध सति । कृतवर्णपरिग्रहेति हेतुगर्भ विशेषणम् । ततः ककारादिवर्णपरिणामाद् वैखरी-विशिष्टायां खरावस्थायां स्पष्टरूपायां भवा वैखरीति निरुक्तः, वाक् प्रयोक्तृणां संबन्धिनी, तेषां स्थानेषु वा, तस्याश्च प्राणवृत्तिरेव निवन्धनम् , तत्रैव निबद्धा सा, तन्मयत्वादिति । या पुनरन्तः संकल्प्यमाना क्रमवती श्रोत्रग्राह्यवर्णरूपाऽभिव्यक्तिरहिता वाक् सा मध्यमेत्युच्यते । तदुक्तम् "केवलं बुद्ध्युपादाना क्रमरूपानुपातिनी । प्राणवृत्तिमतिक्रम्य मध्यमा वाक् प्रवर्तते ॥ १॥" | अस्यार्थः- स्थूलां प्राणवृत्तिमतिक्रम्य- हेतुत्वेन वैखरीबदनपेक्ष्य, क्रमरूपमनुपततीत्येवंशीला, केवलं बुद्धिरेवोपादानं हेतुर्यस्याः सा, प्रवर्तते- संकल्प-विकल्पादिधारानुवन्धिनी भवति । मध्यमा वाक्-वैखरी-पश्यन्त्योर्मध्ये भावाद् मध्यमेति संज्ञा, मनोभूमाववस्थानमस्याः । या तु ग्राह्या भेद-क्रमादिरहिता स्वप्रकाशा संविद्रूपा वाक् सा पश्यन्तीत्युच्यते । तदुक्तम् हर Jain Educ a tional BE For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy