________________
सटीकः। स्तबकः।
S
शासवार्ता- | व्योमोत्पलसगोत्रत्वात् । किश्च, अद्वैतम्' इति प्रसज्यप्रतिषेधः, पर्युदासो वा । प्रसज्यपक्षे प्रतिषेधमात्रपर्यवसानाद् नाद्वैतसिद्धिः, समुच्चयः। प्रधानोपसर्जनभावनाङ्गाङ्गिभावकल्पनायांद्वैतप्रसक्तेः। पर्युदासपक्षेऽपि द्वैतप्रसक्तिरेव, प्रमाणप्रतिपन्ने द्वैते तत्प्रतिषेधेनाऽद्वैतसिद्धेः। ॥२३५॥
द्वैतादद्वैतस्य व्यतिरेके पररूपव्यावृत्तस्वरूपाव्यात्तात्मकत्वेन द्विरूपत्वात् , अव्यतिरेके च सुतरामिति । किञ्च, प्रमाणादिसद्भावे न द्वैतवादाद् मुक्तिः, तदभावे च शून्यतापातादिति । अपिच, द्रव्याद्वैते रूपादिभेदाभावप्रसङ्गः। न च चक्षुरादिसंबन्धात् तदेव द्रव्यं रूपादिप्रतिपत्तिजनकमिति वाच्यम् । सर्वात्मना तत्संबन्धे सर्वदा तथैव प्रतीतिप्रसक्तः, रूपान्तरस्य तयतिरिक्तस्याभ्युपगमे चाद्वैतव्याघातात् । प्रधानाद्वैतमपि महदादिविकाराभ्युपगमे न युक्तम् , विकारस्य विकारिणोऽत्यन्तमभेदे 'विकारी' इति व्यपदेशायोगात् , भेदाभेदेऽनेकान्तसिद्धेः, व्यतिरेके च द्वैतापत्तेः । निरस्तश्च प्रधानाद्वैतवादः सांख्यवार्तायाम् । ब्रह्माद्वैतवादोऽप्यनन्तरमेव निषेत्स्यते वेदान्तिवार्तायाम् ।
शब्दाद्वैतमतमपि न युक्तम् , एवं हि तदनादि निधनं शब्दब्रह्मैव जगतस्तत्वम् , तत्प्रकृतित्वात् , घटशरावादीनामिव o मृत् । तदुक्तं भर्तृहरिणा--
"अनादि-निधन बह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः॥१॥" इति ।
अत्रादि:- उत्पादः, निधनं-विनाशः, तदभावादनादि-निधनम् , प्रकृतेरविकृतैकरूपत्वात् । अक्षरमित्यकारायक्षरस्य निमित्तत्वात , अनेनाभिधानरूपो विवर्त उक्तः, 'अर्थभावेन' इत्यनेन त्वभिधेयरूपः। प्रक्रियेति भेदानामेव संकीर्तनम् । ब्रह्मेति विशुद्धखनामकीर्तनम् । शब्दब्रह्मैव खल्वेकमनवच्छिन्नम् , तचावच्छिन्नेषु स्खविकारेषनुस्यूतमवभासते, सर्वस्यैव प्रत्ययस्य
H॥२३५||
Jain Education International
For Private & Personel Use Only
jainelibrary.org