________________
ပပဝင့်ဝါ
परिणामाबाधात् । अत एव धान्यराशी महत्त्वविशेषाध्यवसायः मुपपदः ।
किञ्च, अवयविनोऽवयवाभेदेऽनभ्युपगम्यमाने 'मृदेवेयं घटतया परिणता' 'तन्तव एवैते पटतया परिणताः' इत्यादयो व्यवहाराः, विभक्तेषु तन्तुषु 'त एवैते तन्तवः' इत्यादिप्रत्यभिज्ञा, अवयवगुरुत्वादेरवयविगुरुत्वाद्यविशेषादिकं च न घटेत । अवयवरूपादिसमुदायेनैवैकावयवरूपाद्युपपत्तिमुपेक्ष्य पृथगवयव्यनुरोधेन रूपादौ रूपादे नाकार्यकारणभावादिकल्पने गौरवं चानिवारितप्रसरं स्यादिति । एतेन 'वस्तुगत्या विलक्षणसंस्थानावच्छेदेन संनिकर्षाद् यद्रव्यगतघटत्वादिग्रहस्तत्तद्वयक्तरुत्पाद-विनाशभेदादिप्रत्ययान्यथानुपपत्त्याऽवयवी पृथगेवेति सिद्धम्' इत्यपि निरस्तम् , 'पृथगेव' इत्यसिद्धः, उत्पाद-विनाशभेदादेधीव्याभेदादिसंवलितत्वसंभवात् , तथामतीतिप्रामाण्यात् । एवं च 'पृथिव्यादयश्चत्वारः परमाणुरूपा नित्या एव, कार्यरूपास्त्वनित्याः' इति तेषां प्रक्रियापि निरस्ता, परमाणूनामपि कार्याभिन्नतयार्थान्तरभावगमनरूपस्य नाशस्य, विभागजातस्य चोत्पादस्य समर्थनात् । यथा हि बहूनामेकशब्दव्यपदेशनिदानं समुदयजनित उत्पादः, तथैकस्य बहुशब्दव्यपदेशानदानं विभागजातोऽपि स किं नाभ्युपेयः । व्यवहरन्ति हि भने घटे 'बहूनि कपालान्युत्पन्नानि' इति । एवं परमाणूनामप्येकनाशे युक्तो बहुत्वेनोत्पादः तदाहुः-- बहुआण एगसदे जइ संजोगाहि होइ उप्पाओ । नणु एगविभागम्मि वि जुज्जइ बहुआण उप्पाओं ॥ १ ॥ इति । योऽप्याह- 'कार्यकारणातिरिक्तं ध्रुवमद्वैतमात्र तत्त्वम्' इति । तन्मतमपि मिथ्या, कार्यकारणोभयशून्यस्याद्वैतस्य 1 बहुकानामेकशब्दे यदि संयोगाद् भवत्युत्पादः । नन्वेकविभागेऽपि युज्यते बहुकानामुत्पादः ॥ १ ॥ २ सम्मतिसूत्रे गाथा १३७ ।
in Education Inter
For Private
Personel Use Only
w.jainelibrary.org