________________
शास्त्रवाता- समुच्चयः ॥२३॥
सटीकः। स्तबकः। ॥७॥
वात, अधिकावयवापगमे तावत एव तस्य दर्शनात् । तदान्यदेव स्वल्पपरिमाणं द्रव्यमिति चेत् । प्रागपि तावदन्यदेव । ना- नात्व एकत्वानुपपत्तिरिति चेत् । तवैवायं दोषः । कथं चैवं प्रासादादावेकत्वात्ययः । न हि प्रासादादिकमेकद्रव्यं भवद्भिरभ्युपगम्यते, विजातीयानां द्रव्यानारम्भकत्वात् । समूहकृतं तत्रैकत्वमिति चेत् । पटादावपि किन तथा ?। न हि पटादौ प्रासादादौ च विलक्षणमेकत्वमनुभूयते । न स्यादेवं धान्यराशावप्येकत्वं पटायेकत्वाद् विलक्षणमिति चेत् । न स्यादेव, निश्चयतः सर्वस्यैव परमाणुसमूहकृतत्वात् । द्रव्यपरिणामकृतत्वात्तु व्यवहारतः स्याचेत् , व्यावहारिकमेकत्वमतिरिच्यताम् , का नाम हानिरनेकान्तवादिनामियता।
अपि च, अवयवेष्ववयवी एकदेशेन समवेयात् , कात्स्न्येन वा ? । आये, तद्देशस्यापि देशादिकल्पनायामनवस्था । द्वितीये च प्रत्यवयवसमवेतावयविबहुत्वप्रसक्तिः। न च देश-कात्यातिरेकेणान्या वृत्तिरस्तीति विवेचितं प्राक् । द्वित्वस्य द्वयोः पर्याप्तत्ववद् यावदवयवेष्ववयविनः पर्याप्तत्वे यावदवयवाग्रहे तद्ग्रहो न स्यात् , प्रत्येकं पर्याप्तत्वे च प्रत्येक पर्याप्तत्वव्यवहारः स्यादिति निष्कर्षः। किश्च, एकस्य निरंशस्यावयविनः पृथुतरदेशावस्थानमयुक्तं स्यात् , न चेदेवम् , एकत्वाविशेषाद् दुर्घटः स्यात् सर्वत्र स्थूल सूक्ष्मादिभेदः । अल्प-बहुवयवारम्भादिकृतोऽसौ विशेष इति चेत् । तर्हि तद्विशेषविशिष्टा अवयवा एवावयविव्यपदेशं भजन्ताम् , किमवयविपृथग्भावकल्पनाकष्टेन ?। अवयवादपृथग्भवन्नवयवी परमाणुसादभेदमश्नुवन्नध्यक्षो न स्यादिति चेत् । न, न ह्यवयदिनोऽपि सर्वेऽध्यक्षा एव, वायु-पिशाचादावनेकान्तात् ; किन्तु केचिदेव तथा च परिणामविशेषनियता योग्यता परमाणुसादभेदेऽपि नासंभविनी । न च तत्र महत्वाध्यवसायोऽप्यनुपनः, परमाणुसमूहेऽपि विशिष्टे महत्त्व
॥२३४॥
JainEducation in
For Private Personal use only