SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Jain Education I तद्रत्वग्रहे द्रागः प्रतिबन्धक इति वाच्यम्; गौरवात् रक्तावयवावच्छेदेन चक्षुः संनिकर्षे रक्तावयवाविषयकतदरक्तत्वप्रतीतिप्रसङ्गाच्च । किञ्च, 'किञ्चिद् वस्त्रं रक्तम्' इति प्रतीतौ 'किञ्चित्' इति 'सर्वम्' इति च वस्त्रविशेष एव प्रतीयते; न तु संयोगविशेषरूपरागे किञ्चिदवयवावच्छिन्नत्वं सर्वावयवावच्छिन्नत्वं च । 'मूले वृक्षः कपिसंयोगी' इत्यत्रापि 'मूलवृत्तिकपि| संयोगवान् वृक्षः' इत्येव स्वारसिकोऽर्थः । यदि य मूलेऽवच्छेदकत्वं भासते तदा तदपि वृक्षापेक्षमेव स्वनिरूपितैकत्व संवलितप्रतियोगित्वरूपम् । अत एव नयभेदेन प्रामाण्याप्रामाण्यविभागः । एवं च 'अवच्छेदकभेदाद् न रक्तारक्तत्वादिविरोधः' इति निरस्तम्, अव्याप्यवृत्तिभेदाभ्युपगमप्रसङ्गाच्च । नच रक्तत्वं पटे रञ्जकद्रव्यनिष्ठमेव परम्परासंबन्धेन प्रतीयते, अरक्तत्वं च समवायेन रक्तभेद एवेत्यपि युक्तम्, परम्परासंबन्धाप्रतीतेः, 'इह रक्तम्' 'नेह रक्तम्' इति विभागाप्रसङ्गात्, अरक्तावयवेऽपि परम्परासंबन्धेन रक्तत्वधीप्रसङ्गाच्च । अपिच, प्रतिनियतानाgतावयवोपलम्भे घटस्यापृथु पृथु पृथुतर- पृथुतमत्वाद्युपलम्भोऽवयवाभेदं विना दुर्घटः, अशेष्येव द्वैचित्र्य संभवात् । परिणामभेदेऽध्यक्षस्य भ्रान्तत्वे 'स्थूलाकारेऽपि भ्रान्तत्वमेव इति स्वलक्षण एवाध्यक्षान्तम् अवयवी तु सांत एव' इति वदन् सौगत एव विजयेत । एतेन 'उपलभ्यमानोऽवयव्यावृत एव तद्गतपरिमाणग्रहोsपीष्ट एव तद्गतहस्तत्वादिजातिग्रहे तु यावदवयवावच्छेदेन संनिकर्षोऽपि हेतु:' इति लीलावतीकारमभृतीनामभिप्राय निरस्तः, यावदवयवावच्छेदेन संनिकर्षस्यासंभवाच्च । परभागमध्यावयवाद्यवच्छेदेन तदनुपपत्तेः, प्रतिनियतावयवावच्छेदेन संनिकर्षाद् हस्तत्वादिदे च प्रतिनियतावयवावभासे परिमाणभेदाद्यवभासोऽपि किं नाभ्युपेयते, चित्रप्रतिभासान्वितस्यैव वस्तुनो युक्त tional For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy