SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- समुच्चयः। ॥२३३।। सटीकः। स्तबकः । ॥७॥ तदपि समवायनिषेधात् , अन्यस्य च संबन्धस्याभावादनुपपन्नमेव । किञ्च, अवयवेभ्योऽवयविन एकान्त भेदे एकदेशरागे सर्वस्य रागः स्यात् , एकदेशावरणे च सर्वस्यावरणं भवेत् , रक्ता-ऽरक्तयोराकृता-ऽनातयोश्च भवदभ्युपगमेनैकत्वात् । यत्तु- 'एकस्मिन् भेदाभावे सर्वशब्दप्रयोगानुपपत्तिः' इत्युद्योतकरेणोक्तम् । तत्तु 'स्वशस्त्रं स्वोपघातायैव' इति न्यायमनुसृतम् अवयवानामवयविभाव एव 'सर्व वस्त्रं रक्तम्' 'किञ्चिद् वस्त्रं रक्तम्' इति चित्रलोकव्यवहारसिद्धेः । न च वस्त्रपदस्य वखाक्यवे लक्षणया तत्र सर्वपदप्रयोगानुपपत्तिर्नेति वाच्यम् । अस्खलवृत्तित्वात् तत्पयोगस्य । यदपि शङ्करस्वामिनोक्तम्- 'वस्त्रस्य रागः कुङ्कुमादिद्रव्येण संयोग उच्यते, स चाव्याप्यवृत्तिः, तत एकत्र रक्ते न सर्वस्य रागः, न च शरीरादेरेकदेशावरणे सर्वस्यावरणं युक्तम्' इति । तदप्ययुक्तम् , पटादेर्निरंशस्यैकद्रव्यस्य कुमादिना व्याप्ता ऽव्याप्तांशाभावेन तत्र संयोगाव्याप्यवृत्तित्वस्यासंभवदुक्तिकत्वात् । तदारम्भकाक्यवस्यैव रक्तत्वे च न तस्य किश्चिदव्याप्यवृत्तित्वं नाम, अवयवं व्याप्यैव रागस्य वृत्तेः, अवयविनश्चारक्तत्वादेव न च स्यादवयविनि रक्तत्वप्रतीतिः । . अथ तत्तदवयवे कुङ्कमसंयोगाख्यो रागो जातस्त तदवयवावच्छेदेनावयविनि रागं जनयति, कारणा कारणसंयोगात् कार्याकार्यसंयोगोत्पत्तः, अतस्तस्यावच्छिन्नत्वरूपमव्याप्यवृत्तित्वं युक्तमिति चेत् । न, तत्रावयवा-ऽवयविवृत्तिकमोत्पद्यमानरागद्वयानुपलम्भात् , संयोगजन्यसंयोग-तत्सामग्यादिकल्पने गौरवात् । तत्र रक्तरूपेणारक्तरूपस्याभिभवेऽन्यावयवेऽप्यरक्तानुपलम्भप्रसङ्गात् , तदनभिभवे च तदवयवेऽपि तदुपलम्भप्रसङ्गात् । न च तदवयवावच्छिन्नं रक्तत्वं तदवयवावच्छेदेनेवारक्तत्वाभिभावकमिति वाच्यम्, अरक्तत्वग्रहमतिबन्धकत्वरूपस्याभिभावकत्वस्यानवच्छिन्नत्वात् । न च रक्तावयवविषयक ROOOK २३३।। Jain Educalan HAR For Private & Personel Use Only HDI www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy