________________
कारणं वास्ति, ध्रुवमद्वैतमात्रमेव तत्वम्' इत्यपरः ।
तत्र 'दुग्धादी दध्यादिकं सदेव' इति सांख्यमते कारणव्यापारवैफल्यम । न हि तेन कार्योत्पत्तिः, तदभिव्यक्तिः, आवरणविनाशो वा कर्तुं शक्यते, तदुत्पत्त्य-भिव्यक्त्योरपि सत्त्वे कारकव्यापारवैफल्यात् , असच्चेऽपसिद्धान्तात् । आवरBणविनाशेऽपि न तत्साफल्यम् , असतो भावस्योत्पादवत् सतो भावस्य नाशाभावात् । न चान्धकारवत् तदावारकं तदा
किश्चिदुपलभ्यते । न च कारणमेव कार्यावारकम् , तस्य तदुपकारकत्वेन प्रसिद्धः। किञ्च, अन्धकारवत् तदर्शनप्रतिवन्धकत्वेन तदावारकत्वे तददर्शनेऽपि तत्स्पर्शोपलम्भप्रसङ्गः। पटादिवद् व्यधायकत्वेन तदावारकत्वे च तद्ध्वंस इव मृत्पिण्डध्वंसेऽपि तदुपलब्धिप्रसङ्गः। क्षीर-नीरादिवदात्यन्तिकसंश्लेषेण तदावारकत्वे च तत्पृथग्भाव विना तदनुपलब्धिप्रसङ्गः । अपिच, कारणकाले कार्यस्य सत्वे स्वकाल इव कथमसौ तेनात्रियते ?, कथं च मृत्पिण्ड कार्यतया घटो व्यपदिश्यते, न त्वन्यथा,
पटादिवत् ? । असत्वे च नावृत्तिः, अविद्यमानत्वादपसिद्धान्तश्च । विवेचितं चेदं चार्वाकवार्तायाम् । निरस्तश्च सत्कार्यHd वादः सांख्यवार्तायाम् । इति न किञ्चिदेतत् ।
एवं चानान्तरभूतपरिणामवादोऽपि प्रतिक्षिप्त एव । न ह्यान्तरपरिणामाभावे परिणाम्येव कारणलक्षणोऽर्थ एको युज्यते, पूर्वापरयोरेकत्वविरोधात । न च परिणामानतिरेके परिणामित्वमपि व्यवतिष्ठते, विशेषणव्यवस्थाधीनत्वाद् विशिष्टव्यवस्थायाः। न ह्येकमेव विशेषणं विशेष्यं च । इति न किश्चिदेतत् ।
. यदपि 'कारणात् कार्यमत्यन्तपृथग्भूतमेव, तदाश्रितत्वेन तस्योत्पत्तेश्च न पृथगुपलम्भः' इति वैशेषिकादीनां मतम् ।
Jain Education
For Private Personal use only
Diwww.jainelibrary.org