SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ शास्त्रवाता- समुच्चयः ॥२३२॥ PARENERGod सटीकः। स्तबकः। APNPNPPOST इति चेत् । न, संचयस्यैकस्य द्रव्यस्थानीयत्वात् । न चैवं परमाणुध्वपि परस्य मानमस्ति, प्रत्यक्षस्य विप्रतिपन्नत्वात् , उपलभ्यमानस्थूलैकस्वभावस्य चावस्तुत्वेन तत्कार्यत्वस्य परैरनभ्युपगमात् । न च वनादिप्रत्ययात् शिंशपाधवगतिवत् स्थूलावभासात् तत्प्रत्ययः, वनादेः शिंशपाधर्मत्वात् , स्थूलाकारस्य च परमाणुधर्मत्वानभ्युपगमात् । कथं च परः कल्पनाज्ञाने भ्रान्तसंविदि वा स्वसंवेदनापेक्षया विकल्पतरयोभ्रान्ततरयोश्च परस्परव्यावृत्तयोराकारयोः कथञ्चिदनुत्तिमभ्युपगच्छ अध्यक्षा हेतु-फलयोावृत्त्यनुविद्धामप्यनुर्ति प्रतिक्षिपेत् ?, संशयज्ञानं वा परस्परव्यात्तोल्लेखद्वयं बिभ्रद् यद्येकमुपेयते तदा किं न पूर्वापरक्षणप्रवृत्तमेकं स्वीकुर्यात् फलरूपं वस्तुहेतुम् , शब्द-विद्युत्-प्रदीपादीनामुत्तरपरिणामाप्रत्यक्षत्वेऽपि तत्सद्भावसाधनात् , पारि माण्डल्यादिवत् संविद्ग्राह्याकारविवेकवद् वाऽध्यक्षस्यापि केनचिद् रूपेण परोक्षत्वाविरोधात् । न च पारिमाण्डल्यादेः प्रत्यक्षता, शब्दाद्युत्तरपरिणामेऽप्यस्या वाङ्मात्रेण सुवचत्वात् । न च शब्दादेरनुपादानोत्पत्तियुक्तिमती, सुप्तप्रबुद्धबुद्धरपि निरुपादानत्वप्रसङ्गात् । नापि निरन्वया संततिविच्छित्तिः, चरमक्षणस्याकिश्चित्करत्वेनावस्तुत्वे पूर्वपूर्वक्षणानामपि तथात्वापत्ती सकलसंतत्यभावप्रसक्तिरिति । तस्माद् दृष्टस्याप्यर्थस्थ पारिमाण्डल्यादेः, ग्राह्याकारविवेकादेशिस्य यथाऽदृष्टत्वं, तथोत्पन्नस्वभावस्यापि कस्यचिदंशस्यानुत्पन्नत्वम् । इति सिद्धं धौव्यम् । - उत्पाद-व्ययव्यतिरेकेण ध्रौव्यमप्यसंगतम् । तथाहि- 'दुग्धादौ दध्यादिकं सदेव' इति सांख्यः, दुग्धादेरेव दध्यादिरूपेण व्यवस्थितत्वात् । 'तदव्यतिरिक्तं विकारमात्रमेव कार्यम्' इति सांख्यविशेषः । 'न कार्य कारणे प्रागस्ति, किंतु ततः पृथग्भूतमेव सामग्रीतो भवति, न तु कारणमेव कार्यरूपेण व्यवतिष्ठते परिणमते वा' इति वैशेषिकादयः । 'न च कार्य MARCHAR २३२॥ Jan Education Interes For Private Personal use only B iainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy