________________
। तथैतदुभयाधारस्वभावं ध्रौव्यमित्यपि । अन्यथा त्रितयाभाव एकदैकत्र किं न तत् ?॥१३॥
-पृथिव्यादिकस्याHit , तद्वयतिरिक्तमा विशेषप्रतिभास
तथा, एतदुभयाधारस्वभावम्- उत्पाद-व्ययाधारस्वभावात्मकम् , धौव्यम् , इत्यपि- इदमपि, तथाप्रतीतेस्तझ्याविना. भूतम् , नान्यथाभूतम्' इति योज्यते । अन्यथा- उक्तानभ्युपगमे, त्रितयाभावः- त्रयमपि कथाशेषमापद्येत, परस्परानुविद्धत्वात त्रितयस्य, अधिकृतान्यतराभावे तदितराभावनियमात् । तथाहि- न धौव्यव्यतिरेकेणोत्पाद-व्ययौ संगती, सर्वदा सर्वस्यानुस्यूताकारव्यतिरेकेण विज्ञान-पृथिव्यादिकस्याप्रतिभासनात् । न चानुस्यूताकारावभासो बाध्यः, तद्वाधकत्वेनाभिमतस्य विशेषप्रतिभासस्य तदात्मकत्व एकबाधेऽपरस्यापि बाधात् , तद्व्यतिरिक्तत्वपक्षस्तु ध्रौव्यधियं विना स्थास-कोशादिप्रतिभासाननुभवादनुपपन्नः। न च प्रथमाक्षसंनिपातानन्तरमन्वयप्रतिभासमन्तरेण विशेषप्रतिभास एव जायत इति वाच्यम् , तदा प्रतिनियतदेशस्य वस्तुमात्रस्यैव प्रतीतेः; अन्यथा तत्र विशेषावभासे संशयाद्यनुत्पत्तिप्रसक्तेः, विशेषावगतेस्तद्विरोधित्वात् । न च तदुत्तरकालभाविसादृश्यनिमित्तैकत्वाध्यवसायनिवन्धनेयं संशयाउनुभूतिः, प्राग विशेषावगमे एकत्वाध्यवसायस्यैवासंभवाद् भेदज्ञानविरोधित्वात् । अनुभूयते च दूरदेशादौ वस्तुनि सर्वजनसाक्षिकी प्राक् सामान्यप्रतिपत्तिः, तदुत्तरकालभाविनी च विशेषावगतिः।
अत एवावग्रहादीनां कालभेदानुपलक्षणेऽपि क्रममभ्युपयन्ति समयविदः, अवग्रहादेरीहादौ हेतुत्वात् । यदि च मूलमध्या-ग्रानुस्यूतस्थूलैकाकारप्रतिभासोऽपढूयते, तदा विविक्ततत्परमाणुप्रतिभासस्याप्यपह्नवात् शून्यताप्रसङ्गः । न चैकत्वपतिभासस्य तद्विषयस्य विकल्प्यमानस्याघटमानत्वाद् मिथ्यात्वम् , तस्यान्यानालम्बनत्वात् । संचितपरमाण्वालम्बनः स प्रतिभास
Jhin Edu semanal
For Private Personal Use Only
www.jainelibrary.org
IRDEL