SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ १ गाहित्वात । परविचालने परविषयोत्खनने मोहा मुह्यन्तीति मोहा असमर्थाः, परविपयस्यापि सत्यत्वेनोन्मूलयितुमशक्यत्वात् , तदभावे स्वविषयस्याप्यव्यवस्थितेः, मिथो नान्तरीयकत्वात् । अतः परविषयस्याभावे स्वविषयस्याप्यसत्वात् तत्पत्ययस्य मिथ्यात्वमेवेत्यवधारयन् दृष्टप्तमयो ज्ञातानेकान्तः पुनस्तान् नयान् न विभजते सत्यानलीकान् वा, किन्वितरनयविषयसव्यपेक्षतया 'अस्त्येव द्रव्यार्थतः' इत्येवं भजनया स्वनयाभिप्रेतमर्थ सत्यमेवावधारयति, यद् यत्र यदपेक्षयास्ति तस्य तत्र तदपेक्षया ग्राहकत्वेनैव नयप्रामाण्यात् । अत एव द्रव्यास्तिकादेः प्रत्येकमित्थंरूपतया सचम् , अनित्थरूपतया चासत्त्वं परिभाषितम् "देवहिउ ति तम्हा णत्थि णो णियमसुद्धजातीओ । न य पज्जवडिओ णाम कोइ भयणाइ उ विसेसो ॥१॥" इति । अनेन हि विषयभेदकृतोऽनयोर्भेदः, यात्मकस्यैव प्रातिस्विकरूपेण द्वाभ्यां ग्रहात् , किन्तु भजनया विवक्षाभेदकृतप्रतिभासभेदादित्युत्तरार्धतात्पर्यम् । तस्मात् पर्यायार्थिक उत्पाद-व्ययप्रतिभासे सत्यत्वमवगच्छति, ध्रौव्यप्रतिभासे बसत्यत्वम्, न तु तत्पतिभासमेव प्रतिक्षिपति, अनुभूयमानतद्विषयताकेऽतद्विषयताकत्वस्य व्यवस्थापयितुमशक्यत्वात् । न खलु सहस्रेणापि बाधकः 'इदं रजतम्' इति प्रतीतेरङ्गत्वावलम्बनत्वं व्यवस्थापयितुं शक्यते । द्रव्यास्तिकोऽपि ध्रौव्यप्रतिभासे सत्यत्वमवगच्छति, उत्पाद-व्ययप्रतिभासे त्वसत्यत्वम् । तदुक्तम्१ ज. सत्त्वेनो' । २ व्यास्तिक इति तस्माद नास्ति नयो नियमशुद्धजातीयः । न च पर्यवास्तिको नाम कोऽपि भजनया तु विशेषः ॥ १॥ ३ सम्मती गाथा । I OKOKHYDERABAD SRAHASRAT GOOOOOPRESS Jain Education internama For Private & Personel Use Only Emirjainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy