SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ शास्त्रवाता समुच्चयः । ॥२३०॥ च्छेदकत्वं स्यादिति चेत् । न, नयवाक्ये तद्वति तत्प्रकारकबोधजनकत्वस्य समारोपव्यवच्छेदकत्वस्य निर्धारकत्वस्य वा इतरांशाप्रतिक्षेपित्वस्य वा प्रमाणत्वस्य सवेऽप्यनेकान्तवस्तुग्राहकत्वरूपस्य प्रमाणवाक्यनिष्ठस्य प्रामाण्यस्याभावेन 'नय-प्रमा णैः' इति पृथगुक्तेः । एतेन ‘घटोऽस्ति' इत्यादिवाक्ये लोकसिद्धं प्रामाण्यं परित्यज्य 'स्याद् घटोsस्ति' इत्यादावेत्र प्रामाण्यं परिकल्पयतामपूर्वा चातुरी' इत्यव्युत्पन्न कल्पना निरस्ता । निरस्ता च शुक्तौ रजतभ्रमे इदमंशे प्रामाण्यवद् दुर्नयेऽप्यधिकृतांशे प्रमाणत्वेन नयत्वापत्तिः, लोकसिद्धप्रामाण्यापरित्यागादेशव्याप्तस्य प्रमाणत्वस्य प्रमाणावकाशसंभवेऽपि समूहव्याप्तस्य नयत्वस्यांशावकाशासंभवात् । ननु 'घट उत्पन्न एव' इति स्यादंशविनिर्मुक्तस्य दुर्नयस्यापि नयवत् स्वविषयावधारकत्वमस्त्येव, एवकारेणानुत्पन्नत्वाभावज्ञापनेऽप्युत्पन्नत्वप्रकाशनव्यापारापरित्यागात्, अनेकान्तबलादुभयोपपत्तेः, रक्ततादशायां घटे 'न श्यामः' इति बुद्धिवदिति चेत् । सत्यम्, इतरनयविषयविरोधावधारणे भजनां विना स्वविषयावधारणस्यैवाप्रवृत्तेः प्राक् श्यामत्वेन ज्ञाते 'इदानीम्' इति विनिर्मोकेण 'न श्यामः' इति बुद्धिवत् प्रवृत्तस्यापि च तस्यान्यथाविषयत्वरूपमिथ्यात्वोपस्थितेः । तदिदमुक्तम् " Jain Education Notional "'णिययवणिज्जसच्चा सव्वणया परविआलणे मोहा। ते उण ण दिवसमओ विभयइ सच्चे व अलिए वीं ।। १ ।। " अस्यार्थः- निजकवचनीये स्वविषये परिच्छेद्ये सत्याः सम्यग्ज्ञानरूपाः सर्व एव नयाः संग्रहादयः, तद्वति तदव२ निजकवचनीयसत्याः सर्वनयाः परविचालने मोहाः । तान् पुनर्न दृष्टसमयो विभजते सत्यान् वालीकान् वा ॥ ३ ॥ २ सम्मतिसूत्रे गाथा २८ ॥ For Private & Personal Use Only सटीकः । स्तबकः । ॥ ७ ॥ ॥२३० ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy