SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ एवम्- उत्पाद-व्ययवत् , धौव्यमपि नास्तीति न, अविगानेन- अबाधितत्वेन, तद्गतेः- ध्रौव्यपरिच्छेदात् । अस्याश्च- ध्रौव्यगतश्च, भ्रान्ततायामुच्यमानायाम् , जगति- त्रैलोक्ये, अभ्रान्ततागतिः- अभ्रान्ततापकारः, नास्ति कश्चित् । ननु यद्येवं द्रव्यास्तिक-पर्यायास्तिकयोयोरपि प्रत्येकं मिथ्यात्वम् , तदा सिकतासमुदाये तैलवत् तत्समुदायेऽपि सम्यक्त्वाभावात् कथं "प्रमाण-नयैरधिगमः" ? इति चेत् । सत्यम् , न ह्यत्र दलप्रचयलक्षणः समुदाय उच्यते, पर्यायस्यादलत्वात, इतरेतरविषयापरित्यागवृत्तीनां ज्ञानानां समुदायाभावात, कचित क्रमिकतत्समुदायस्याव्यापकत्वाचः किन्वितरनयविषयीकृतरूपाव्यवच्छेदकत्वम् , तदेव चान्योन्यनिश्रितत्वं गीयते । इदमेव च प्रवृत्तिनिमित्तीकृत्य तत्र सम्यक्त्वपदं प्रवर्तते; तदिदमुक्तम्"तम्हा सब्वे विणया मिच्छदिही सपक्खपडिबद्धा । अण्णोणणिस्सिा उण हवंति सम्पत्तसम्भावा ॥१॥" इति । ननु यद्येवम् , तदा यथा बहुमूल्यान्यपि रवान्यननुस्यूतानि 'रत्रावली' इति व्यपदेशं न लभन्ते, अनुस्यूतानि च तान्येव 'रत्नावली' इति व्यपदेशं लभन्ते, जहति च प्रत्येकसंज्ञाः, तथा नया अपि प्रत्येकं सम्यक्त्वव्यपदेशं न लभन्ते, समुदितास्तु तं लभन्ते, जहति च दुर्नयसंज्ञाः, इति कथं दृष्टान्तः ? इति चेत् । निमित्तभेदेन व्यपदेशभेद एवायं दृष्टान्तः, न तु प्रत्येकसमुदायभाव इति दोषाभावात् । तथापि नयानां प्रमाणत्वे "प्रमाण-नयैः" इति पुनरुक्तं स्यात् , अप्रमाणत्वे चापरि १ तत्वार्थसूत्र १६॥ २ तस्मात् सर्वेऽपि नया मिथ्यादृष्टयः स्वपक्षप्रतिबद्धाः । अन्योन्यनिश्चिताः पुनर्भवन्ति सम्यक्त्वसद्भावाः ॥३॥ ३ सम्मतिग्रन्थे गाथा २१। ४ ख, ग, घ, च. 'स्याद्वादप्र' । ORE in duelan t ona For Private & Personal Use Only ! www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy