________________
शास्त्रवार्ता- समुच्चयः। ।।२२९॥
तत्त्वम् , तदतद्रूपभावन- तदतत्स्वभावत्वेन, अव्यवस्थितम्- अनिश्चितमिति ॥ ८ ॥
सटीकः। अत्र सिद्धान्तवातोमाह
स्तबकः। तयाहुर्मुकुटोत्पादो न घटानाशधर्मकः। स्वर्णान्न चान्य एवेति न विरुद्धं मिथस्त्रयम् ॥९॥
से-जैनाः, आहुर्यदुत- मुकुटोत्पादो न घटानाशधर्मकः- धर्मपदस्य स्वभावार्थत्वात् , नव्यत्ययाच न घटनाशास्त्रभाव इत्यर्थः; तुल्यहेतुप्रभवयोयोस्तयोरेकस्वभावत्वात् । न च स्वर्णात्- अन्वयिनः स्वाधारभूतात् , अन्य एव । इति हेतोः, मिथस्त्रयम्- उत्पादादिकम् , न विरुद्धम् , एकत्रैकदा प्रमीयमाणत्वादिति ॥९॥
एतदेव समर्थयन्नाहनचोत्पादव्ययौन स्तोध्रौव्यवत्तद्धियागतेः।नास्तित्वेतु तयो|ौव्यंतत्त्वतोऽस्तीतिन प्रमा॥
न चोत्पाद-व्ययौ न स्त:- न विद्यते, कल्पितत्वादिति वाच्यम् । कुतः ? इत्याह-धौव्यवत् तद्धिया-स्त्रबुद्ध्या, गतेः- परिच्छेदात् । तथापि नास्तित्वे तु- नास्तित एव तयोरुपगम्यमाने, धौव्यं तत्त्वतः- परमार्थतः, अस्तीति न प्रमा, उत्पाद-व्ययप्रतीतितुल्ययोगक्षेमत्वाद् धौव्यधियः । एतेन द्रव्यास्तिकमतं निराकृतम् ॥ १० ॥
पर्यायास्तिकमनं निराचिकीर्षनाहन नास्ति ध्रौव्यमप्येवमविगानेन तद्गतेः। अस्याश्च भ्रान्ततायां न जगत्सभ्रान्ततागतिः। ॥२२९॥
Jain Education Intem
For Private & Personel Use Only
ANw.jainelibrary.org