________________
।
यात्र- च्यात्मकत्वे जगतः, शोक-प्रमोद-माध्यस्थ्यं साधनमुक्तम् , घट-मौलि-सुवर्णार्थी' इत्यादिना। तदप्यसांप्रतम्अविचारितरमणीयम् , यत्-यस्मात् , तत्- शोकादिकम् , आन्तरवासनानिमित्तम् , मतम्--अभीष्टम् , न वस्तुनिमित्तम् , वस्तुदर्शनेनान्तरशोकादिवासनाप्रबोधादेव घटनाशादिविकल्पात् शोकाद्युत्पत्तेः । यदि च वस्तुनिमित्तमेव शोकादिकं स्यात् तदा राजपुत्रादिवदन्यस्याप्यविशेषेण तत्प्रसङ्गः ॥६॥
उपचयमाहकिञ्च स्याहादिनो नैव युज्यते निश्चयः क्वचित् । स्वतन्त्रापेक्षया तस्य न मानं मानमेव यत्।।
'किश्च' इति दृषणान्तरे, स्यावादिनः कचित- अधिकृते वस्तुनि, निश्चयो नैव युज्यते, यद्- यस्मात् , तस्य खतन्त्रापेक्षया- स्वसिद्धान्तापेक्षया. मान-- प्रमाणम् , मानमेव न-प्रमाणमेव न, अनेकान्तव्याघातात । एवं चानेकान्तानुरोधादप्रमाणीभूतं प्रमाणं न निश्चायकं घटादिवत् ॥ ७॥
किश्च, संसार्यपि न संसारी मुक्तोऽपि न स एव हि। तदतद्रूपभावेन सर्वमेवाव्यवस्थितम् ॥८॥
संसायपि संसार्येव न, एकान्तप्रसङ्गात् : मुक्तोऽपि हि-निश्चितम् , स एव- मुक्त एव न, तत एव । एवं च सर्वमेव प्रस्तुते स्तबके कारिका ।
in Education in
For Private & Personal use only
anilyww.jainelibrary.org