________________
सटीकः। स्तवकः। ॥ ७॥
PICS
शास्त्रवाता-सिद्धस्य स्वीकतमचितत्वादिति । तस्मात सामान्यविशेषरूपतया गोरसदृष्टान्तेनोत्पाद-व्यय-ध्रौव्यात्मक वस्तु सिद्धम् ॥३॥ समुच्चयः ॥२२८॥
अत्र परेषां पूर्वपक्षवार्तामाहअत्राप्यभिदधत्यन्ये विरुद्धं हि मिथस्त्रयम्। एकत्रैवैकदा नैतद्धटां प्राञ्चति जातुचित् ॥४॥
अनापि- व्यात्मकतत्ववादेऽपि, अन्ये- सौगतादयः, अभिदधति यदुत-विरुद्धं हि-विरुद्धमेव, मिथः- परस्परम् , त्रयम्- उत्पादादिः यत एवम् , अत एकत्रैव वस्तुनि, एकदा- एकस्मिन् काले, एतत्-त्रयम् , जातुचित्- कदाचित् , न घटां प्राश्चति- न घटते ॥४॥
मिथो विरोधमेवोपदर्शयतिउत्पादोऽभूतभवनं विनाशस्तद्विपर्ययः।ध्रौव्यं चोभयशून्यं यदेकदैकत्र तत्कथम् ? ॥५॥
उत्पादोऽभूतभवनम्-प्रागसतः सामग्रीवलादात्मलाभः, विनाशस्तद्विपर्ययः- भूतस्यानन्तरमभावः, धौव्यं चोभयशून्यम्- उत्पाद विनाशरहितम् , यत्- यस्मात् । तत्- तस्मात् , एकत्र वस्तुनि, एकदा- एकस्मिन् काले, कथम् ॥५॥
नन्वेकस्मिन्नेकदोत्पादादित्रयकार्यशोक-प्रमोद-माध्यस्थ्यदर्शनाद् न विरोधः, प्रमाणसिद्धेऽर्थे विरोधामसरात् , इत्यत आहशोक-प्रमोद-माध्यस्थ्यमुक्तं यच्चात्र साधनम्। तदप्यसांप्रतं यत्तद्वासनाहेतुकं मतम् ॥६॥
॥२२८॥
Jain Education Internete
For Private Personel Use Only
www.jainelibrary.org