SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ध्वंसत्वं जन्यतावच्छेदकम् । न हि जन्याभावत्वं तत, जन्यत्वस्य ध्वंसगर्भत्वेनात्माश्रयात् । न च कालिकेन घटत्वपटत्वादिमत्त्वं तत् , अनन्तकार्यकारणभावप्रसङ्गात् । यदि चाखण्डोपाधिरूपमेव ध्वंसत्वादिकम् , तदा घटत्वादिकमप्यखण्डोपाधिरूपमेवास्तु, इति जातिविलय एवायातो देवानांप्रियस्य ! । यत्तु- 'घटत्वादेर्जातित्वे घटे समवायेन तद्वत्ताधीव्यपदेशादिकमिति लाघवम् , अखण्डोपाधित्वे तु स्वरूपसंवन्धेनेति गौरवम्' इति पद्मनाभादिभिरभिदधे । तत्तुच्छम् , स्वरूपसंबन्धस्याप्युपाधिरूपत्वेऽनुगतत्वेन लाघवापच्यवात् , समवायापेक्षया स्वरूपसंबन्धस्य गुरुत्वेऽननुगमस्यैव वीजस्य भवताभ्युपगमात् । यदपि 'जातावखण्डोपाधित्वापादने फलतोऽसमवेतत्वमेवापाद्यते, तच्चाशक्यम् , समवेतत्वस्य तत्र प्रत्यक्षसिद्धत्वात्' इति । तदपि न, समवेतत्वस्य त्वदतिरिक्तनाननुभवात् , संवन्धांशे विलक्षणप्रतीतेरप्यसिद्धेः 'इह घटत्वम्' 'इह भावत्वम्' इति धियो_लक्षण्यासिद्धेः । इष्यते च भावत्वमखण्डोपाधिरूपं नवीनैः, 'द्रव्यादौ सत्तादौ च 'भावः' 'भावः' इत्यनुगतधियः . संबन्धाशे वैलक्षण्याननुभवेन समवाय-खाश्रयसमवायान्यतरसंबन्धेन सत्तैव भावत्वम्' इति प्राच्यमतस्य दूषणादिति न किञ्चिदे- | तत् । तस्मात् सामान्यविशेषरूपमेव वस्तु स्वीकर्तव्यम् , यदविशिष्टं प्रतिस्वमनुगतं, विशिष्टं च विशिष्टानुगतमविशिष्ट स्व-परव्यावृत्तं | स्वभावत एव चित्रक्षयोपशमवशाद् गुण-प्रधानभावेन परस्परकरम्बितं भासते । अत एव घटत्वांश इव घटांशेऽप्यनुगताकारा धीः, अत एव च महानसीयधूम एवाभिमुखीभूते सामान्यतो गृह्यमाणा व्याप्तिः पर्वतीयधमेऽपि पर्यवस्पति, संवृतविशेषाकारे धृमसामान्य एव तद्ग्रहात् । न हि तदुत्तरं सामान्यप्रत्यासत्या सकलधूमविशेष्यकं व्याप्तिज्ञानं जायमानमनुभूयते, किन्तु Ho प्रथममेव तथाक्षयोपशमवशात् , सामान्यप्रत्यासत्यादिकल्पनागौरवेणैकव्यक्तरेव कथश्चित्प्रतिनियतव्यक्त्यभेदस्य प्रत्यभिज्ञा Jain Education For Private & Personel Use Only Plwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy