________________
Jain Education Inter
भावेन गोत्वाभावसमानाधिकरणत्वे गोत्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वादिकमेवाश्वत्वादौ विरोधितावच्छेदकं यथादर्शनं कल्पनीयमिति न संकीर्णयोस्तथात्वम्, मानाभावात्, सामानाधिकरण्यग्राहकमानविरोधाच्च । किञ्च, संकीर्णयोरजातित्वे घटत्वमपि जातिर्न स्यात् पृथिवीत्वेन परापरभावानुपपत्तेः । अथ पृथिवीत्वादिव्याप्यं नानैव घटत्वम्, कुलाल-स्वर्णकारादिजन्यतावच्छेदकतया तन्नानात्वस्यावश्यकत्वात्, अत एव घटत्वव्याप्यं पृथिवीत्वादिकमेव किं न स्यात् । इति नात्रिनिगमः, तन्नानात्वे तज्जन्यतावच्छेदकनीलत्व- गन्धत्व- भास्वरत्वादिनानात्वापत्तेः, अनुगतधीस्तु कथञ्चित्सौस (12) दृश्यादिति चेत् । न नीलादौ नीलादेरसमवायिकारणत्वेनानतिप्रसङ्गे पृथिवीत्वेन तत्राहेतुत्वात् भावकार्ये ससमवायिकारणकत्वनियमाभावात्, भावे वा जन्यत्वावच्छिन्नं प्रति द्रव्यत्वेन हेतुतयैवोपपत्तेः घटत्वस्य नानात्वे तज्जनकतावच्छेदकसंयोगनिष्ठजातिनानात्वस्याभिघातत्वादेस्तदव्याप्यत्वस्य कल्पने चातिगौरवात् ।
न च जन्यद्रव्यजनकतावच्छेदिकैव संयोगनिष्ठा जातिरुपेयते, न तु घटादिजनकतावच्छेदिकापि, यत्र कपालयोः संयोगविशेषाद् द्रव्यान्तरं भवति तत्र कपालत्वस्यैवास्वीकारेण घटोत्पत्यनापत्तेरिति वाच्यम्; ताभ्यामेवोत्तरकालं संयोगविशेषेण घटारम्भदर्शनात् । न चोत्तरकालं द्व्यणुकादिलक्षणकिञ्चिदवयवापगमात् खण्डकपालान्तरमुत्पद्यते तत्रैव घटजनकतावच्छेदिका जातिरिति वाच्यम्; तत्र किञ्चिदवयवापगमात् खण्डकपालोत्पत्तिः, किञ्चिदवयवसंश्लेषाद् महाकपालोत्पत्तिर्वेति विनिगन्तुमशक्यत्वात्, ततः कपालान्तरोत्पत्तेरपि तत्र कपालत्वस्वीकारं विना दुर्घटत्वाच्च । हन्त ! एवं घटत्वस्य नान
१ ख.ग.प.च. 'मानावि' ।
For Private & Personal Use Only
cbapoplook
www.jainelibrary.org