________________
Catee
सांप्रतम् , अन्तराले चक्षुःसंयोगे तदापादनात् । न च तत्र तदभावात् तदनुपलम्भः, तत्संबन्धसत्त्वे तदभावायोगात् , तत्र | तदभावज्ञाने तत्र सद्विशिष्टबुद्ध्यनुत्पादेऽपि तदुभयसमूहालम्बनस्य दुर्निवारत्वाच्च । एतेन 'अन्तरालशब्देन किं पिण्डान्तरमश्वादिरूपमभिधीयते, आहोस्विद् मूर्तद्रव्याभावः, उताकाशादिप्रदेशः ? इति विकल्पाः। यद्यश्वादिपिण्डान्तराभिधानम् , तदा तत्र गोत्वसामान्यस्य वृत्तेरग्रहणमुपपन्नमेव । न हि यद् यत्र नास्ति तत्तत्र गृह्यत इति परस्याभ्युपगमः। एवं मूर्तद्रव्याभावा-ऽऽकाशादिदेशयोरपि तदग्रहणम् , अभावादेव' इति निरस्तम् । न च चक्षुःसंयोगावच्छेदकावच्छेदेन तस्यासमवेतत्वात् तदग्रहणम् , अव्याप्यवृत्तिद्रव्यसमवेतग्रह एव तथाहेतुत्वकल्पनात् । यैरपि 'समवायोऽपि नैकः, जलादेगन्धादिमत्ताप्रसङ्गात् ' इत्यादिना समवायनानात्वं स्वीक्रियते, तेषामपि घटत्व-सत्वादिसमवायनानात्वाभावादयं दोषस्तदवस्थ एव ।
अपि च, अक्षणिकव्यापकैकस्वभावत्वे सामान्य किं येनैव स्वभावेनैकस्मिन् पिण्डे वर्तते तेनैव पिण्डान्तरे, आहोस्वित् स्वभावान्तरेण । यदि तेनैव, ततः सर्वपिण्डानामेकत्वासक्तिः, एकदेश-काल-स्वभावनियतपिण्डवृत्त्यभिन्नसामान्यस्वभावक्रोडीकृतत्वात् तेषाम् , प्रतिनियतदेश-काल-स्वभावैकपिण्डवत् । अथ स्वभावान्तरेण, तदानेकस्वभावयोगात् सामान्यस्यानेकत्वप्रसक्तिरिति न किञ्चिदेतत् । एतेन
""पिण्डभेदेषु गोबुद्धिरेकगोत्वनिबन्धना । गवाभासैकरूपाभ्यामकगोपिण्डबुद्धिवत् ॥१॥
न शाबलेयाद् गोबुद्धिस्ततोऽन्यालम्बनापि वा । तदभावेऽपि सद्भावाद् घटे पार्थिवबुद्धिवत् ॥ २॥ १ श्लोकवार्तिकमुद्रितपुस्तके 'तस्मात् पिण्डेषु गो' इति पाठः ।
हासकहरुका
For Private Personal Use Only
www.jainelibrary.org
in duen ANO