________________
शास्त्रवार्तासमुच्चयः । ॥२२५॥
न्यस्यापि व्याप्यवृत्तित्वादेकत्राप्यनवच्छिन्नवृत्तित्वरूपं कार्त्स्न्येन वृत्तित्वमुपगम्यत एव । न चैवं यावद्वयक्तिभेदापत्तिः, ज्ञानेकविषयत्ववज्जातवकवृत्तित्वस्याप्यविरोधादिति चेत् । न, 'एकत्वमेकत्रैत्र पर्याप्तम्, न द्वयोः' इति धियैकत्व-द्वित्वयोरेकत्रोभयो पर्याप्तिवद् 'घटत्वमत्र पर्याप्तम्' इति धिया घटत्वस्यापि प्रत्येकं पर्याप्तिस्वीकार एकत्व-द्वित्वावच्छिन्नपर्याप्तिकयोरेकस्व-द्वित्वयोरिव तत्तव्यक्तित्वावच्छिन्नपर्याप्तिकत्वेन तद्भेदस्याप्यावश्यकत्वात् । किञ्च, उत्पद्यमानेन पिण्डेन सह संवध्यमानं सामान्यं किमन्यत आगत्य संबध्यते, उत तत्पिण्डेन सहोत्पादात्, आहोस्वित् पिण्डोत्पत्तेः प्रागेव तद्देशावस्थानात् ? । नायः, अमूर्तस्य पूर्वाधारवृत्ति स्वभावापरित्यागेनान्यत्रागमनासंभवात् । न द्वितीयः, अनुत्पन्नस्वभावत्वाभ्युपगमात् । न तृतीयः, घटta accraftratorपि 'घटः' इत्यनुगतधीव्यपदेशप्रसङ्गात् । तदुक्तम् -
“ नायाति न च तत्रासावस्ति पश्चाद् न चांशवत् । जहाति पूर्व नाधारमहो ! व्यसनसंततिः ॥ १ ॥ "
तथा,
“ यत्रासौ वर्तते भावस्तेन संबध्यते न च । तद्देशं न च व्याप्नोति किमप्येतद् महाद्भुतम् ॥ १ ॥ " इति ।
'अनुत्पन्नेऽपि घटे घटपदवाच्यत्ववद् घटत्वसमवायसत्वात् तदुत्पत्तौ तदभिव्यक्तेर्न दोषः' इत्यप्यनालोचिताभिधानम्, द्रव्यार्थतया सत्त्वाभ्युपगमं विना 'अनुत्पन्नो घटः' इत्यभिधानस्यैव दुःशकत्वात् यत एव निमित्तात् तावद्व्यक्तिषु तदाधारतानियमस्तत एव तदन्यथासिद्धेश्व। किश्च पिण्डेभ्योऽव्यतिरिक्तं यद्यनुस्यूतं सामान्यमभ्युपगम्येत तदैकपिण्डोपलम्भे तस्याभिव्यक्तत्वात् पिण्डान्तरालेऽप्युपलब्धिः स्यात् । न च तत्र तदुपलम्भहेतोचक्षुः संयुक्तसंयोगस्याभावात् तदनुपलम्भ इति
Jain Education International
For Private & Personal Use Only
सटीकः ।
स्तवकः ।
॥ ७ ॥
॥२२५॥
www.jainelibrary.org