________________
एकत्वमपि न तत्र संख्यारूपम् , अनभ्युपगमात् । नाप्याश्रयभेदकृतभेदप्रतियोगित्वादिकम् , आश्रयभेदेन तद्भेदावश्यकत्वात् । अन्यथाऽण्वेकवादावप्याश्रयभेदकृतभेदे मानाभावादतिव्याप्त्यनिरासात् । असहायत्वरूपमेकत्वमपि तत्र प्रतिनियतव्यक्तिव्यङ्ग्यत्वाभ्युपगमाद् दुर्वचम् । अनेकसमवेतत्वमपि समवायनिरासाद् निरस्तमेव ।।
किञ्च, सामान्यस्यैकव्यक्तावेकदेशेन वृत्तिर्भवेत् , सर्वात्मना वा ? । सर्वात्मना वृत्तावेकस्मिन्नेव पिण्डे सर्वात्मना परिसमाप्तत्वाद् यावन्तः पिण्डास्तावन्ति सामान्यानि स्युः, न वा सामान्यम् , एकपिण्डवृत्तित्वात् , रूपादिवत् । एकदेशवृत्तावपि न सामान्यं स्यात् , सामान्यस्य निरंशत्वेनैकदेशासंभवात् , संभवेऽपि तस्य ततो भेदाऽभेदविकल्पानुपपत्तेः । न च सामान्यस्यानुवृत्तैकरूपत्वात् कात्स्न्य-कदेशशब्दयोस्तत्राप्रवृत्तिः, निरवयवैकरूपेऽपि व्याप्त्य-ऽव्याप्तिशब्दयोर्भवतैवाभ्युपगमात् , तत्र च कृत्स्नै-कदेशपक्षोक्तदोषाणां समानत्वात् । एतेन 'किमनेन प्रसङ्ग आपाद्यते परस्य, आहोस्वित् स्वतन्त्रसाधनम् ? इति । न तावत् प्रसङ्गसाधनम् , पराभ्युपगमेनैव तस्य वृत्तेः । न च परस्य कात्स्न्येन, एकदेशेन वा निरंशस्य वृत्तिः सिद्धा, किन्तु वृत्तिमात्रं समवायस्वरूपं सिद्धम् , तच्च विद्यत एव, समवायस्य प्रमाणतः सिद्धेः । तद् न प्रसङ्गसाधनमेतत् । स्वतन्त्रं तु साधनं न भवति, सामान्यलक्षणस्य धर्मिणोऽसिद्धेहेतोराश्रयासिद्धिप्रसङ्गात् । धर्मिसिद्धौ वा तत्प्रतिपादकपमाणबाधितत्वात् तदभावसाधकप्रमाणस्याप्रवृत्तिरेव' इति निरस्तम् , लोक-शास्त्रसिद्धकात्स्न्य-कदेशवृत्तिविशेषनिषेधेन वृत्तिसामान्याभावस्य परं प्रत्यापादनात् , समवायवृत्तावपि संयोग-रूपादौ द्वैरूप्यस्य सिद्धत्वात् ।
अथ व्याप्यवृत्त्य-ऽव्याप्यवृत्त्योईत्तित्वेऽनवच्छिन्नत्वमवच्छिन्नत्वं चेति कात्स्य-कदेशविशेषो नापरः । तत्र च सामा
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org