________________
शास्त्रवार्ता -
समुच्चयः । ॥२२४॥
प्रत्यभिज्ञायमानस्य पराकर्तुमशक्यत्वात् ।
"न च विशेषेभ्योऽत्यन्तव्यतिरिक्तं ध्रुवं सामान्यमस्ति तदव्यवस्थितेः । तथाहि - "नित्यमेकमनेकसमवेतं सामान्यम्” इति तल्लक्षणमाचक्षते परे । 'अत्र 'एकम् ' इति स्वरूपाभिधानं न तु लक्षणम्' इत्येके । 'नित्यमेकम्' इत्येकं लक्षणम्, लक्षणान्तरं वा, समवायित्वे सत्यनेकसमवेतत्वमिति सूचनायेदम्' इत्यन्ये । 'अनेकवृत्तित्वमनेकाधारकत्वम्, तच्चाभाव- समवाययोरपि, इत्यत उक्तम्- 'एकम् असहायम्', अभाव- समवाययोश्च प्रतियोगिसंबन्धिनौ सहायौ' इत्यपरे । तत्र नित्यत्वं तावत् श्यामत्व-रक्तत्वाद्युपाधीनामिव दधित्व दुग्धत्वादीनां साक्षादेवोत्पाद- विनाशानुभवादसिद्धम् । दुग्ध-दभोरेवोत्पाद- विनाशानुभवो sस्ति, न दधित्व दुग्धत्वयोरिति चेत् । तर्हि श्याम-रक्तयोरेव तदनुभवः, न तु श्यामत्व- रक्तत्वयोः, इति तयोरपि नित्यत्वं किं न स्यात् । ' श्यामाद्युत्पादाद्यनुभवो भ्रान्तः, तत्कारणवाधात्' इति तु न युक्तम्, दण्डादिकं विनापि खण्डदण्डादिवत तदुत्पादादिसंभवात् । 'सहेतुकत्वाच्छ्यामरूपादेर्न नित्यत्वम्' इत्यत्रापि विवादकलह एव । भावकार्यस्य नाशनियमाद् न तत्र नित्यत्वमिति चेत् । अनुत्तरमेतदपि, कार्यत्वस्यैवेत्थमसिद्धेः । किञ्च, एवं लाघवाद् भावस्यैव नाशनियमाज्जातेरपि नित्यत्वक्षतिरस्तु । अनित्यत्वे सति प्रतिव्यक्ति भिन्नं सत् सामान्यं सामान्यरूपतां जह्यादिति चेत् । उपाधिरप्यनुगतव्यवहारनियामिकां तां किं न जह्यात् ? । उपाधावपि परम्परया जातिरेवानुगमिका, प्रमेयत्वादेरपि परम्परासंबन्धेन प्रमात्वादिरूपत्वादिति चेत् । न घटे घटत्वादेरिव प्रमेयत्वादेरपि साक्षादेवानुभवात् ।
१ ज. 'दिति' ।
Jain Education International
For Private & Personal Use Only
सटीकः ।
स्तबकः । ॥७॥
॥२२४॥
www.jainelibrary.org