________________
Jain Education
इति सर्वस्वहानिजनित इव महान् मण्डनमिश्रगृहशोको निवारितः । परिहरिष्यते च पूर्वपक्षोङ्कितोऽनिश्चयप्रसङ्गः स्वयमेव ग्रन्थकृता । इति तत्रैवाधिकं विवेचयिष्यते ॥ २ ॥
एतदुपपत्तेरेव स्थलान्तरमाह -
पयोव्रतो न दध्यत्ति न पयोऽत्ति दधित्रतः । अगोरसत्रतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ॥३॥
पयोव्रतः - क्षीरभोजनव्रतः, न दध्यत्ति - न दधि भुङ्गे । यदि च दनः पयस एकान्ताभेदः स्यात् तदा तस्य दधि भुञ्जतोऽपि न व्रतभङ्गः स्यात् । तथा, दधित्रतः - दधिभोजनव्रतः, पयः- दुग्धम्, अत्ति । पयसो दन एकान्ताभेदे च तद् भुञ्जतो न दधिभोजनव्रतभङ्गः स्यात् । ततो दधि-पयसोः कथञ्चिद् भेदः । तथा, अगोरसव्रतः- आलनालादिभोजनव्रतः, उभे- दुग्धदधिनी, नाति, इति गोरसभावेन द्वयोरभेदः; अन्यथा कृतगोरसप्रत्याख्यानस्य दुग्धाद्येकैकभोजनेऽपि न व्रतभङ्गः स्यादिति । |तस्मात् - द्रव्यपर्यायोभयात्मकत्वात्, त्रयात्मकं - उत्पाद-व्यय-धौन्या पृथग्भूतं वस्तु । तथाच समयपरमार्थवेदिनः
"देव्वं पज्जवविउ दव्वविउत्ता य पज्जवा णत्थि । उप्पाय-हि-भंगा हंदि ! दवियलक्खणं एयं ॥ १ ॥ | " इति । ननु दुग्ध-दोरेकान्तेन भेद एव इति तस्योत्पाद-व्ययौ युक्तौ धौव्यं तु गोरसत्वसामान्यस्यैव न तु गोरसस्येति चेत् । न, इदमेव गोरसं दुग्धभावेन नष्टम्, दधिभावेन चोत्पन्नम् इत्येकस्यैवैकदोत्पाद-व्ययाधारत्वलक्षणध्रौव्यभागि तया १ द्रव्यं पर्यायवियुतं द्वव्यबियुक्ताश्च पर्यवा न सन्ति । उत्पाद-स्थिति-भङ्गा हन्त ! द्रव्यलक्षणमेतत् ॥ १ ॥ २ सम्मतौ गाथा १२ ।
For Private & Personal Use Only
www.jainelibrary.org