________________
सटीकः।
शास्त्रवार्ता
न च शोकादिकं निर्हेतुकमिति वक्तुं युक्तम् , नित्यं सत्चस्याऽसत्त्वस्य वा प्रसङ्गात् । न च युष्माकमपि तत्र घटसमुच्चयः। मुकुटोभयार्थिनो युगपच्छोक-प्रमोदोत्पाद इति वाच्यम् , एकत्रोभयार्थिप्रत्ययोगात् । एकत्र देशे तत्मवृत्तौ चोभयस्य ॥२२३॥ कथश्चित्प्रत्येकातिरेकेण दोषाभावात् , येन रूपेण यत्रेच्छा तेन रूपेण तन्नाशो त्पाद-स्थितिज्ञानानामेव शोक प्रमाद-माध्यस्थ्य
हेतुत्वात् , अनेकान्तस्याप्यनेकान्तानुविद्धकान्तगर्भत्वात् । तदुक्तम्"भयणा वि हु भइयव्वा जह भयणा भयइ सव्वदव्वाइं । एवं भयणानियमो वि होइ समयाविराहणयां ॥१॥ इति ।
अत एव "रैयणप्पहा सिय सासया, सिय असासया" इत्यनेकान्तवाक्ये तदनुविद्धं "दैवयाए सिय सासया, पजवयाए सिय असासया" इति भगवद्वचनं व्यवस्थितम् । एतेन 'उत्पाद-स्थिति-भङ्गानामेकत्र समवायतः प्रीति-मध्यस्थताशोकाः स्युन स्युरिति दुर्घटम्' इत्यभिप्रायापरिज्ञानविजृम्भितं मण्डनमिश्रकृतखण्डनमपास्तम् । न हि घट-मुकुटरूपापेक्षावुत्पादनाशावेव सुवर्णरूपापेक्षावपि, येनाव्यवस्था स्यादिति। न चानेकान्तवादे तत्सत्त्वेऽपि तदभावज्ञानात् प्रवृत्यव्यवस्थया प्रीत्यायव्यवस्थापि, येन रूपेणेच्छा तेन रूपेण तदभावज्ञानस्यैव प्रवृत्तिविघातकत्वात् । एतेनापि ___ "नैकान्तः सर्वभावानां यदि सर्वविधा गतः । अप्रवृत्ति-निवृत्तीदं प्राप्तं सर्वत्र ही जगत् ॥१॥"
१ भजनापि खलु भक्तव्या यथा भजना भजति सर्वव्याणि । एवं भजनानियमोऽपि भवति समयाविराधनया ॥१॥ २ सम्मती गाथा १२४ । ३ रत्नप्रभा स्यापछामती, स्थादशाश्वती । । इम्पार्थतया स्थाच्छाश्वती, पर्यायार्थतया स्थादशाश्वती।
॥२२३॥
Jain Education in
For Private & Personal Use Only
ww.jainelibrary.org