SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ स पाप्रयोजकलोक-प्रमोद-माध्यस्थ्यं सहेतुक शोको न वा प्रमोदः, किन्तु मायः, घटादिविवर्ता विभावनीयम् ॥१॥ उत्पादादित्रयात्मकत्व उपपत्तिमाहघटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम्।शोकप्रमोदमाध्यस्थ्यंजनोयाति सहेतुकम्॥ . अयमधिकृतो जनः, सामान्यापेक्षयैकवचनम् , एकस्यैकदा त्रिविधेच्छाऽभावात् , कालभेदेनेच्छात्रयस्य च व्यात्मकैकनिमित्तत्वाप्रयोजकत्वादिति द्रष्टव्यम् । घट-मौलि-सुवर्णार्थी सन्-प्रत्येकं सौवर्णघट-मुकुट-सुवर्णान्यभिलषन् , एकदा तन्नाशोत्पाद-स्थितिषु सतीषु, शोक-प्रमोद-माध्यस्थ्यं सहेतुकं याति । तदैव हि घटार्थिनो घटनाशात् शोकः, मुकुटार्थिनस्तु तदुत्पादात् प्रमोदः, सुवर्णार्थिनस्तु पूर्वनाशा-अपूर्वोत्पादाभावाद् न शोको न वा प्रमोदः, किन्तु माध्यस्थ्यमिति दृश्यते । इदं च वस्तुनौलक्षण्यं लक्षणं विना दुर्घटम् , घटनाशकाले मुकुटोत्पादानभ्युपगमे तदर्थिनः शोकानुपपत्तेः, घटादिविवातिरिक्तसुवर्णद्रव्यानभ्युपगमे च सुवर्णार्थिनो माध्यस्थ्यानुपपत्तेः । न च सुवर्णसामान्यार्थिनो यत्किञ्चित्सुवर्णनाशेऽपि शोकाभावात् , अपूर्वेच्छाऽभावेन च प्रमोदाभावादादुपपद्यते माध्यस्थ्यमिति वाच्यम् , तथापि घटनाशानन्तरमेव मुकुटोत्पादाभ्युपगमेऽन्तरा यावत्सु| वर्णाभावे शोकस्यैव प्रसङ्गात् , दोषविशेषात् तदननुभवेन शोकाभावोऽपि विशेपदर्शिनो दुर्घटः । न च सुवर्णसामान्याभावोऽपि सुवर्णसामान्येच्छाविघातकज्ञानविषय एकः परस्य युज्यते, अनुभवेन तदैक्याभ्युपगमे च तत्तद्विवर्तानुगतसुवर्णसामान्यस्याप्यनुभवसिद्धस्य प्रत्याख्यातुमशक्यत्वात् , गौणीकृतविशेषायास्तद्विषयकेच्छाया एव तद्विषयकप्रवृत्तिहेतुत्वादिति । For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy