________________
स
पाप्रयोजकलोक-प्रमोद-माध्यस्थ्यं सहेतुक शोको न वा प्रमोदः, किन्तु मायः, घटादिविवर्ता
विभावनीयम् ॥१॥
उत्पादादित्रयात्मकत्व उपपत्तिमाहघटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम्।शोकप्रमोदमाध्यस्थ्यंजनोयाति सहेतुकम्॥ . अयमधिकृतो जनः, सामान्यापेक्षयैकवचनम् , एकस्यैकदा त्रिविधेच्छाऽभावात् , कालभेदेनेच्छात्रयस्य च व्यात्मकैकनिमित्तत्वाप्रयोजकत्वादिति द्रष्टव्यम् । घट-मौलि-सुवर्णार्थी सन्-प्रत्येकं सौवर्णघट-मुकुट-सुवर्णान्यभिलषन् , एकदा तन्नाशोत्पाद-स्थितिषु सतीषु, शोक-प्रमोद-माध्यस्थ्यं सहेतुकं याति । तदैव हि घटार्थिनो घटनाशात् शोकः, मुकुटार्थिनस्तु तदुत्पादात् प्रमोदः, सुवर्णार्थिनस्तु पूर्वनाशा-अपूर्वोत्पादाभावाद् न शोको न वा प्रमोदः, किन्तु माध्यस्थ्यमिति दृश्यते । इदं च वस्तुनौलक्षण्यं लक्षणं विना दुर्घटम् , घटनाशकाले मुकुटोत्पादानभ्युपगमे तदर्थिनः शोकानुपपत्तेः, घटादिविवातिरिक्तसुवर्णद्रव्यानभ्युपगमे च सुवर्णार्थिनो माध्यस्थ्यानुपपत्तेः । न च सुवर्णसामान्यार्थिनो यत्किञ्चित्सुवर्णनाशेऽपि शोकाभावात् , अपूर्वेच्छाऽभावेन च प्रमोदाभावादादुपपद्यते माध्यस्थ्यमिति वाच्यम् , तथापि घटनाशानन्तरमेव मुकुटोत्पादाभ्युपगमेऽन्तरा यावत्सु| वर्णाभावे शोकस्यैव प्रसङ्गात् , दोषविशेषात् तदननुभवेन शोकाभावोऽपि विशेपदर्शिनो दुर्घटः । न च सुवर्णसामान्याभावोऽपि सुवर्णसामान्येच्छाविघातकज्ञानविषय एकः परस्य युज्यते, अनुभवेन तदैक्याभ्युपगमे च तत्तद्विवर्तानुगतसुवर्णसामान्यस्याप्यनुभवसिद्धस्य प्रत्याख्यातुमशक्यत्वात् , गौणीकृतविशेषायास्तद्विषयकेच्छाया एव तद्विषयकप्रवृत्तिहेतुत्वादिति ।
For Private Personal use only
www.jainelibrary.org