________________
शास्त्रवार्तासमुच्चयः। ॥२२२॥
सटीकः। स्तबकः। ॥ ७॥
मुत्पत्तिः, तदैव च तत्तज्ज्ञानविषयत्वादीनामुत्पत्तिः, किंबहुना ? यदैवैकद्रव्यस्योत्पत्तिः, तदैव त्रैलोक्यान्तर्गतसमस्तद्रव्यैः सह साक्षात् पारम्पर्येण वा संवन्धानानुत्पत्तिः, सर्वद्रव्यव्याप्तिव्यवस्थिताकाश-धर्मा-ऽधर्मादिद्रव्यसंबन्धात् । ईदृशप्रतिपत्त्यभावश्चास्मदाद्यध्यक्षस्य तथा तथोल्लेखेन निरवशेषधात्मकवस्त्वग्राहकत्वात् , त्रैलोक्यव्यावृत्तवलक्षणान्यथानुपपत्याऽनुमीयते तु निर्वाधमेव तथात्वम् , इतरप्रतियोगिकत्वेनेतराप्तिपृथग्भूतानां व्यावृत्तीनां स्ववृत्तित्वेन स्वापृथग्भूतत्वात् । न चैवं घटे स्वोत्पादादितदन्योत्पादादिकमपि प्रमीयेतेति वाच्यम् , व्यावृत्तिद्वारेष्टत्वात् , अनुवृत्त्या तु तदभावादेव । अत एव 'स्व-परविभागोऽप्येवमुच्छिद्येत' इति निरस्तम् , खत्त्यनुत्तिप्रतियोगित्वेन स्वस्य, खवृत्तिव्यावृत्तिप्रतियोगित्वेन च परत्वस्य व्यवस्थितेः । अत एव परत्रापि स्वसंवन्धितामात्रव्यवहारो व्युत्पन्नानामबाध एव; उक्तं च भाष्यकृता"जेसु अणाएसु तओ ण णजए, णजए अ णाएसु । किह ते ण तस्स धम्मा घडस्स रूबाइधम्म व्वं ॥१॥" इति ।
तत्र च परपर्यायैर्विसदृशैः पटत्वादिभिनास्ति घटद्रव्यम् , सदृशैस्तु सच-द्रव्यत्व-पृथित्वादिभिर्व्यञ्जनपर्यायैरस्त्येव, साधारणासाधाणस्य सामान्यविशेषरूपस्य वस्तुनो गुण-प्रधानभावेन सदादिशब्दवाच्यत्वात् । अर्थपर्यायैस्तु ऋजुमूत्राभिमतैः सदृशैरपि नास्ति, अन्योन्यव्यावृत्तवलक्षणग्राहकत्वात् तस्य, स्वपर्यायैरपि प्रत्युत्पन्नस्तत्समयेऽस्त्येव, विगत-भविष्यद्भिस्तु कथश्चिदस्ति, कथश्चिद् नास्ति, तत्काले तच्छक्त्या तस्यैकत्वात् , तद्रूपव्यक्त्या च भिन्नत्वादिति । प्रत्युत्पन्नैरप्येकगुणकृष्णस्वादिभिरनैकगमैर्भजनेति । एवं स्वतः परतो वाऽनुवृत्ति-व्यावृत्त्याद्यनेकशक्तियुक्तोत्पादादिलक्षण्यलक्षणमनेकान्तात्मकं जगद्
१ येष्वज्ञातेषु ततो न ज्ञायते, ज्ञायते च ज्ञातेषु । कथं ते न तस्य धर्मा घटस्य रूपादिधर्मा इव ॥१॥ २ विशेषावश्यकभाव्ये गाथा ४८५ ।
र
Jain Education in
For Private Personal Use Only