________________
PCOCESSIST
विनाशानवच्छिन्नकालसंबन्धरूपायास्तत्स्थितर्घटविनाशविशिष्ट घटरूपमृत्स्थित्यार्या विरोधात् । तथा, प्रत्येकमपि देश-का
याभ्यां भिन्नकालता, उत्पद्यमानस्यापि पटस्य देशेनोत्पन्नत्वात् , देशेन चोत्पत्स्यमानत्वात् , प्रबन्धन चोत्पद्यमानत्वात् । विगच्छतोऽपि देशेन विगतत्वात् , देशेन च विगमिष्यत्त्वात् , प्रबन्धेन च विगच्छत्वात : तिष्ठतोऽपि देशेन स्थितत्वात् , देशेन च स्थास्यत्वात् , प्रबन्धेन च तिष्ठत्वादिति । एकस्वरूपाद् द्रव्यादर्थान्तरभूतादभिन्नकालाश्चैतेऽविशिष्टाः सन्तो चिन्नप्रतियोगिविशिष्टा वा, कुशूलनाश घटोत्पाद-मृत्स्थितीनामेककालत्वादिति, ततोऽनर्थान्तरभूता अपीति । एवं चोत्पादादित्रयेण त्रैकाल्येन भेदा-ऽभेदाभ्यां भङ्गसंततिव्यस्य भावनीया सूक्ष्मधिया, ज्यात्मक-त्रिकालात्मकतयाऽनन्तपर्यायात्मकत्वादेकवस्तुनः । न चैवमनन्ते काले भवतोऽनन्तपर्यायात्मकैकद्रव्यस्योपपत्तावप्येकक्षणे कथं तदुपपत्तिः इति शङ्कनीयम् , एकक्षणेऽप्यनन्तानामुत्पादानां, तत्समानां विगमाना, तनियतस्थितीनां च संभवात ; तथाहि- यदैवानन्तानन्तप्रदेशिकाहारभावपरिणतपुद्गलोपयोगोपजातरस-रुधिरादिपरिणतवशाविर्भूतशिरोऽङ्गल्याद्यङ्गोपाङ्गभावपरिणतस्थूल-मूक्ष्म-मूक्ष्मतरादिभिन्नावयव्यात्मकस्य कायस्योत्पत्तिः, तदैवानन्तानन्तपरमाणपचितमनोवर्गणापरिणतिलभ्यमन उत्पादोऽपि, तदैव च वचनस्यापि कायाकृष्टान्तरवर्गणोत्पत्तिपतिलब्धवृत्तिरुत्पादः, तदैव च काया-ऽऽत्मनोरन्योन्यानुप्रवेशाद् विषमीकृतासंख्यातात्मपदेशे कायक्रियोत्पत्तिः, तदैव च रूपादीनामपि प्रतिक्षणोत्पत्तिनश्वराणामुत्पत्तिः, तदैव च मिथ्यात्वा-विरति-प्रमाद-कषायादिपरिणतिसमुत्पादितकर्मबन्धनिमित्तागामिगतिविशेषाणामप्युत्पत्तिः, तदैव चोत्सृज्यमानोपादीयमानानन्तानन्तपरमाण्वापादिततत्पमाणसंयोग-विभागाना
१ ख.ग.प.च. 'नन्तप्र'।
Jain Education Inter
For Private & Personel Use Only
aw.jainelibrary.org