SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - समुच्चयः । ॥२२१॥ Jain Education प्राच्यां काशी' इत्यतः 'प्रयागनिष्ठोदयाचलसंयुक्तसंयोग पर्याप्त संख्या पर्याप्त्यधिकरणोदयाचल संयुक्त संयोगशालिमूर्तवृत्तिः काशी' इत्यन्वयस्तूच्छृङ्खलानां कल्पनामात्रम्, तथाननुभवात्, अनुभव-प्रवचनाभ्यामाकाशस्यैव सर्वाधारत्वेन क्लृप्ततया दिक्त्वेन मूर्तस्यानाधारत्वाच्चेति दिग् । व्ययोsपि स्वाभाविकः प्रयोगजनितश्चेति द्विविधः । तद्व्यातिरिक्तस्य वस्तुनोऽभावात् पूर्वावस्थाविगमव्यतिरेकेणोतरावस्थोत्पत्त्यनुपपत्तेः । न हि बीजादीनामविनाशेऽङ्कुरादिकार्यप्रादुर्भावो दृष्टः । न चावगाह - गति स्थित्याधारत्वं तदनाधारत्वस्वभावप्राक्तनावस्थाध्वंसमन्तरेण संभवतीति । तत्र समुदयजनित उभयत्रापि द्विविधः समुदयविभागरूप एकः, यथा पटादेः कार्यस्य तन्त्वादिकारणपृथक्करणम् । अन्यश्चार्थान्तरभावगमनलक्षणः, यथा मृत्पिण्डस्य घटार्थान्तरभावः । नाशत्वं चास्याजनकस्वभावापरित्यागे जनकत्वायोगात् । न चैवं घटविनाशे मृत्पिण्डप्रादुर्भावप्रसक्तिः पूर्वोत्तरावस्थयोः स्वभावतोसंकीर्णत्वात्, वस्त्वन्तररूपे वस्त्वन्तररूपस्यापादयितुमशक्यत्वात् । ऐकत्विकनाशश्चैकल्विकोत्पादवद् वैश्रसिकभेद एवेति तदुक्तम् — "मिस्स विएस विही समुदयजणिअम्मि सो उ दुविअप्पो । समुदयविभागमेत्तं अत्यंतर भावगमणं वो ॥ १ ॥ " इति स्थितिथाविचलितस्वभावरूपत्वाद् न विभज्यते । तद्युक्तत्वं च जगतः कथञ्चित्तद्रूपत्वात् तथाहि त्रयोऽप्युत्पादादयो भिन्नरूपावच्छेदेन भिन्नकाला, घटोत्पादसमये घटविनाशस्य, घटविनाशसमये घटोत्पादस्य तदुत्पाद- विनाशयोरुत्पत्तिदिगमस्याप्येष विधिः समुदयजनिते स तु द्विविकल्पः । समुदय विभागमात्र मर्थान्तरभावगमनं वा ॥ १ ॥ २ सम्मतौ गाथा १३३ । ational For Private & Personal Use Only सटीकः । स्तबकः । 119 11 ॥२२१॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy