SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ मात् , वृक्षादौ तथादर्शनात् , अन्यथा मूलादेरिवान्यस्याप्यवच्छेकत्वापत्तेः । नन्वेवं परमाणोरपि पड्दिसंयोगात् षडंशता स्यादिति चेत् । स्यादेव, द्रव्यार्थतयैव तस्य निरंशत्वात् , पर्यायार्थतया तु सांशताया अप्यभ्युपगमात् । अत एव 'सावयवमाकाशम्, समवायिकारणत्वात् , पटवत्' इत्यपि प्रसङ्गापादनं संगच्छते । संगच्छते च 'सावयवमाकाशम् , हिमवद्-विन्ध्यावरुद्धभिन्नदेशत्वात् , तदवष्टब्धदेशभूभागवत्' इत्यादि । किञ्च, आकाशस्य सावयवत्वाभावे 'इह पक्षी' इति धीरनुपपन्ना स्यात् । न च 'इह' इत्यालोकमण्डलमेव प्रतीयत इति वाच्यम् , तदालोकव्यक्तेरन्यत्र गतावपि तदर्शनात् । न चालोकान्तरं तद्विषयः, 'तत्रैव' इति प्रत्यभिज्ञानात् । न चालोकत्वेनैव तदाधारत्वाद् न तदनुपपत्तिरिति वाच्यम् , आलोकाभावेऽपि तत्रैव' इति प्रत्यभिज्ञानात् । न च मूर्तद्रव्याभावाधारत्वेन तदुपपत्तिः, आलोके सति तदभावात् । न च निविडमूर्तद्रव्याभावस्तदाप्यस्त्येवेति वाच्यम् , तस्यान्यत्रापि सत्वेनान्यत्र गतेऽपि पक्षिणि प्रत्यभिज्ञापत्तेः, देशविशेषमवच्छेदकं प्रतीत्यैव 'इह पक्षी' इति प्रयोगाच । न चाकाशदेशस्यातीन्द्रियत्वेनावच्छेदकप्रतीत्यनुपपत्तिः, अक्षबुद्धौ तादृशस्यापि क्षयोपशमविशेषेण विशेष्याकृष्टतया भावात् । एतेन 'पृथिवीभागोर्ध्वत्वादिभेदापेक्षया तत्रैव प्रतद्रव्याभावे भेदाभेदव्यवहारोपपत्तिः, अत एवान्यत्र गतेऽपि पतत्रिणि पूर्वानुभूताधःस्थितपृथिव्यादियावद्भागोर्खताभ्रमे 'तत्रैव पतत्री' इति भवति प्रत्यभिज्ञानम्' इति निरस्तम् , 'इह गगने पतत्री' इत्यत्र निरवच्छिन्नस्यैवावच्छेदकस्य स्फुरणात् , आकाशदेशभेदाभावे पृथिवीभागोर्ध्वतादिभेदस्यैवानुपपत्तेश्च । एवं च तत्तत्याच्यादिव्यवहारभेदेनाप्याकाशभेदसिद्धिः 'ततः प्राच्यामयम्' इत्यत्र तदपेक्षया संनिहितोदयाचलसंयोगावच्छिन्नाकाशवृत्तिरयम्' इत्यर्थात , दिशोऽनतिरेकात , तदपेक्षत्वस्य संनिहितत्वस्य च तथास्वभावविशेषत्वात् । 'प्रयागात् Jain Education nationa For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy