________________
शास्त्रवार्तासमुच्चयः ॥२२०॥
सटीकः। स्तबकः।
GOODoesToTRATAKायला
PAPERIODOOLOR
युक्तम्' इति त्वपरिणतनयस्याभिधानम् , तदपेक्षयोत्पादस्याभावादेव । प्रायोगिक-स्वाभाविकयोरुत्पादयो/दे प्रायोगिककाले यत्नेतरकारणानां सत्त्वे स्वाभाविकोत्पादापत्तिवारणाय तत्र यत्नप्रतिबन्धकत्वादिगौरवात् कल्पित एवायमिति चेत् । न, अभ्रादौ विलक्षणोत्पादस्यानुभवसिद्धत्वेन तत्प्रतिबन्धकत्वादिकल्पनागौरवस्याबाधकत्वात् , यनेतरहेतूनां स्वभावोत्कर्षाभावेन प्रायोगिककाले स्वाभाविकानुत्पत्त्या तत्पतिबन्धकत्वाकल्पनाचेति ।
स च द्विविधः- समुदयजनितः, ऐकत्विकश्च । तत्र मूर्तिमव्यावयवारब्धः समुदयजनितः, इतरश्चैकत्विकः। आद्योऽभ्रादीनामुत्पादः, घटादीनामप्यप्रथमतया विशिष्टनाशस्य विशिष्टोत्पादनियतत्वात् । न हि मृर्तावयवसंयोगकृतत्वं समुदयजनितत्वम् , विभागकृतपरमाण्वाश्रुत्पादेऽव्याप्तेः, किन्तु मूर्तावयवनियतत्वम् । तच्च तदवस्थावयवस्याप्यवस्थाविशेषात् संभवीति । द्वितीयस्तु गगन-धर्मा-धर्मास्तिकायानामवगाहक-गन्तृ-स्थाद्रव्यसंनिधानतोऽवगाहन-गति-स्थितिक्रियोत्पत्तेरनियमेन स्यात्परप्रत्ययः, मूर्तिमदमूर्तिमदवयवद्रव्यद्वयोत्पाद्यत्वात् , अवगाहनादीनां स्यादैकत्विकः, स्यादनकत्विकश्चेति भावः तदुक्तम्___ "सांभाविओ वि समुदयकउ व्व एगत्तिउ व्व होजाहि । आगासाईआणं तिहं परपच्चओ णियमा ॥१॥” इति ।
___अथाकाशादीनां मूर्तिमद्रव्यानारब्धत्वे निरवयत्वमेव स्यादिति तन्नायमनेकान्त इति चेत् । न, प्रदेशव्यवहारस्याकाशेऽपि दर्शनेन तस्य सावयवत्वात् । न च 'आकाशस्य प्रदेशाः' इति व्यवहारो मिथ्या, आरोपनिमित्ताभावात् । न चाव्याप्यवृत्तिसंयोगाधारत्वकृतस्तदध्यारोपः, तथा सति तत्र तत्त्वस्यैवानुपपत्तेः, अवयविनि देशेन संयोगस्यावयवावच्छिन्नत्वनिय
स्वाभाविकोऽपि समुदयकृतो वैकस्विको वा भविष्यति । आकाशादिकानां प्रयाणां परप्रत्ययो नियमात् ॥ १ ॥२ सम्मती गाथा १३० ।
॥२२०॥
For Private Personal Use Only
www.jainelibrary.org
Jain Education Interational