________________
Jain Educati
देsपि पुरुषव्यापारजन्यत्वस्यावश्यकत्वात् विविच्याननुभूयमानत्वेनोत्पादापलापे च नाशस्याप्यपलापप्रसङ्गात् उत्पत्तेरायक्षण संबन्धेनान्यथासिद्धौ नाशस्यापि चरमक्षणसंबन्धनाशेनान्यथासिद्धेः सुवचत्वात्, अन्यत्र तदाधारताप्रत्ययस्योत्पश्याधारताप्रत्ययस्येवावच्छेदकत्वेनोपपत्तेः । घटप्रतियोगिकत्वेन नाशो विलक्षण एवानुभूयत इति चेत् । तथोत्पादोऽपीति तुल्यम् । किश्च, एवमाद्यक्षणे 'आग्रक्षण संबन्धवान् घटः' इतिवत् 'आद्यक्षण उत्पन्नो घटः इति प्रयोगो न सूपपदः स्यादिति न किञ्चिदेतत् ।
यत्तु - 'एवं नाशवदुत्पादस्य जन्यत्वेऽपि तत्र प्रतियोग्यतिरिक्तकृतविशेषाभावात्, भावेऽपि सर्वस्येश्वरप्रयत्नजन्यत्वात् प्रयोगजनितत्वं न विभाजकम्' इति । तत्तुच्छम् नाशेऽपि सामान्यापेक्षया भावांशमादाय कारणकृतविशेषदर्शनादेव तदप्रत्यूहात्, ईश्वरस्य निरासाच्च न चेदेवम्, व्यापारजन्यत्वमपोद्य यत्नजन्यत्वेन स्वयमेवोपपादितः कृताकृतविभागो घटा-रादौ दुर्घटः स्यात् । यत्नजन्यताविशेषेण तदुपपादने च व्यापारजन्यताविशेषेणापि तदुपपत्तेः, तथाऽप्रतिसंधानेऽपि विलक्षणस्वभावोत्पादानुभवसाम्राज्याच्च । अत एव देवकुलादावनुभूयमानं विलक्षणोत्पादवत्त्वरूपं विशिष्टकार्यत्वमेव यत्नजन्यतानियतम्, न तु कार्यसामान्यम्, इति शिपिविष्टखण्ड नेऽभिहितमिति ।
पुरुषव्यापाराजन्य उत्पादो द्वितीयः । पुरुषेतरकारकव्यापारजन्यत्वं तु स्वरूपकथनमस्य, न तु लक्षणम्, प्रायोगिकेऽतिव्याप्तेः । ' तन्मात्रन्यत्वं गुरुत्वादत्रैव विश्राम्यति इति प्रायोगिकस्यापि द्रव्यापेक्षया स्वाभाविकत्वाद् नैतद् १ ख ग घ च 'पन्ने घ' । २ ज 'नादत्र त' । ३ ख. च. छ. ज. रूपवि' ।
mational
For Private & Personal Use Only
www.jainelibrary.org