SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः । ॥२१९॥ अन्ये त्वाहुरनाद्येव जीवाजीवात्मकं जगत् । सदुत्पादव्ययध्रौव्ययुक्तं शास्त्रकृतश्रमाः ॥ १॥ सटीकः । अन्ये तु शास्त्रकृतश्रमाः - कृतप्रवचनोपनिषदध्ययनभावना जैनाः, जगत्- जगत्पदप्रतिपाद्यम्, अनाद्येव- प्रवाहापेक्षया सदातनमेव, आहुः । एवकारो व्यवस्थायाम्, तेन नेश्वरादिकृतं, नवा प्रधानपरिणामादिकृतमिति लभ्यते । तथा, जीवाऽजीवात्मकं - जीवाश्राजीवाश्च जीवा-जीवास्त आत्मानः समुदायिनो यस्य तत् । तेन चिन्मात्रादिवादनिरासः । तथा, सदुत्पाद-व्यय-धौव्ययुक्तम्- सन्ति पारमार्थिकानि यानि न तु कल्पितानि उत्पाद-व्यय-धौव्यानि तद्युक्तं तन्मयम् । ''मौक्तिकादिसहिता माला' इतिवत् तत्सहितमित्यपि न दुष्यति' इत्यन्ये । अत्रोत्पादः 'उत्पन्नमिदम्' इति धीसाक्षिको धर्मः । स द्विविध:- प्रयोगजनितः, विस्रसाजनितश्च । पुरुषव्यापारजनित आद्यः । स च मूर्तिमद्रव्यारब्धावयवकृतत्वात् समुदयवादः । तत एव चासावपरिशुद्ध इति गीयते; तदुक्तम् " पाओ दुवियप्पो पगजणिओ अ विससा चैव । तत्थ य पओगजणिओ समुदयवाओ अपरिसुद्धो ॥ १ ॥ " इति । अत्रापरिशुद्धत्वं स्वाश्रययावदवयवोत्पादापेक्षया पूर्णस्वभावत्वम् । न ह्यपूर्णावयवो घट उत्पद्यमानः कात्स्यैनोत्पन्न इति व्यवहियत इति । ननु न प्रयोगजन्य उत्पादः घटादेरेव प्रयत्नजन्यत्वात्, उत्पादस्य त्वाद्यक्षण संबन्धरूपस्यातथात्वादिति चेत् । न, 'मुद्गरपाताद् नष्टो घटः' इति व्यपदेशाद् नाशे मुद्गरपातजन्यत्ववत् 'पुरुषव्यापारादुत्पन्नो घटः' इति व्यवहारादुत्पा१ उत्पादो] द्विविकल्पः प्रयोगजनितश्च विस्रसा चैव तत्र च प्रयोगजनितः समुदयवादोऽपरिशुद्धः ॥ १ ॥ २ सम्मतिसूत्रे गाथा १२९ । Jain Educationational For Private & Personal Use Only स्तवकः । || 6 || ॥२१९॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy