SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ अत्र ज्ञानस्यासद्विषयत्वं तदभाववति तत्मकारकत्वम् , अर्थस्यासत्प्रतिभासनं च स्वाभाववद्विशेष्यकज्ञानगकारत्वम् , तथाभानं च तदभावस्फूर्त्या मानसाध्यक्षोहादिना दीर्घाध्यवसायिनेति तत्वम् । कथं च बाध्यबाधकभावानभ्युपगमे स्कन्ध-संतानादिविकल्पानां निर्विषयत्वोपवर्णनं युक्तिमत् स्यात् ?, कथं वा बाध्यबाधकभावप्रतिषेधविधायियुक्त्युपन्यासो न व्यर्थः स्यात् ?, | समारोपव्यवच्छेदार्थं तदुपन्यासे तद्वयवच्छेदस्य स्वरूपापहाररूपत्वे बाध्यबाधकभावोपगमप्रसङ्गात् १, उदयकाल एव तदपहारे तदर्थ शास्त्रप्रणयनानुपत्तेश्च । अथ शास्त्रादेः प्राक्तनसमारोपक्षणादुत्तरसमारोपक्षणजननासमर्थः क्षणः समुपजायत इति तन्नित्तिः, तर्हि वाधकाद् वाध्यनिवृत्तिरपि तथैव संपत्स्यत इति न तन्निराकरणं युक्तम् । ईदृशं बाध्यत्वमेव फलतो नीलादिज्ञाने साध्यत इति चेत् । न, प्रत्यक्षबाधात् । न हि द्विचन्द्रादिज्ञान इव सत्यनीलादिज्ञानेऽवतरति कस्यापि वाध इति । अथ द्विचन्द्रादौ बाधोऽपि लोकाभिमत एव, तत्र लोकसंवृतिसिद्धं सत्त्वम् , इति लोकानां सच्चाभिमानः, इति परमार्थतोऽसत्त्वं तत्र शास्त्रेण ज्ञाप्यते । एवं च नीलादौ परमार्थासत्वसाधने लोकवाध्यत्वाभावेऽपि न दोषः, 'प्रकाशस्य प्रकाशता' इत्यत्र लोकसिद्धस्यापि भेदस्य 'नीलादीनां स्वभावः' इत्यत्र चाभेदस्य विचारासहत्वेन परमार्थनोऽसत्त्वादिति चेत् । न, लोकसिद्धस्य साध्यस्य साधने लोकसिद्धस्य बाधस्य दोषत्वात् , अलौकिकस्य च साध्यस्यानसिद्धेः, परमार्थसत्त्वज्ञानं नास्त्येव नीलादौ लोकानाम् , सत्त्वमात्रमेव हि तैस्तत्रानुभूयते, तच्च न प्रकृतबाधकम् , घटज्ञानपि नीलघटाभावज्ञानवत् सत्वज्ञानेऽपि परमार्थसत्त्वाभावज्ञानोपपवेरिति चेत् । तर्हि द्विचन्द्रादावप्यसत्त्वमात्रमनुभूयते, न तु परमार्थतोऽसत्त्वम् , इति क साध्यसिद्धिः ।। Jain Education For Private Personel Use Only w w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy