________________
शास्त्रवार्ता -
समुच्चयः ।। ॥२१७॥
किञ्च, सकलशून्यतापक्षस्य यथा स्वप्नेऽप्यप्रत्ययेन निरासः, तथा स्वच्छसंविदतिरिक्तशून्यतापक्षस्य द्रष्टव्यः, मध्यमक्षणस्थायिनः संविन्मात्रस्य कदाप्यनुपलम्भात्, स्वपरव्यवसायिन एव ज्ञानस्य स्फुटमुपलम्भात् । न चानुपलब्धप्रत्ययेनोपलब्धत्ययवाधा सुघटा, अतिप्रसङ्गात् । न चासतां नीलाद्याकाराणां परिस्फुरणं न तु तुरङ्गशृङ्गादीनामित्यत्र बीजमस्ति । न च निर्धर्मके संविन्मात्रे क्षणिकत्वादिधर्मोऽपि घटते । इति वासनामात्रमेतत् परेषाम् । तस्माद् यथानुभव मेकानेक स्वरूपमेव वस्तु श्रद्धेयम्, तत्र विरोधस्य निरस्तत्वात्, निरसिष्यमाणत्वाच्चेत्यव सेयम् ॥ ६२ ॥
सौगत ! प्रणयिनीव नितान्तं शून्यता तव न मुञ्चति चित्तम् । प्राज्ञपर्षदिन कश्चन हर्षस्तेन शून्यहृदयस्य तवास्ति ॥ १ ॥ मुग्धमाध्यमिक ! मध्यमसंवित् किं सतावत समाश्रयणीया । उत्तमां सुविदितामिह चित्रां तामनाप्य न हताश ! हतः किम् ? ॥ २ ॥
अस्य विषयविभागाभिधित्सयाह
एवं च शून्यवादोऽपि सद्विनेयानुगुण्यतः । अभिप्रायत इत्युक्तो लक्ष्यते तत्त्ववेदिना ॥ ६३ ॥
एवं च - उक्तरीत्या घटमानत्वे चेत्यर्थः, शून्यवादोऽपि तद्विनेयानुगुण्यतः- शून्यताविषयविभागावधारणप्रवणशिष्य हितानुरोधात् तवेदिना- बुद्धेन, अभिप्रायतः- तत्प्रयोजनाभिप्रायात्, उक्तः, न तु तचाभिधित्सया, इति लक्ष्यतेसंभाव्यते । विना तूपकारकं कारणं द्रव्यमृषाभाषित्वे बुद्धस्यानाप्तत्वप्रसङ्गादिति ।। ६३ ।।
पूर्णा सुगतसुतमतवार्ता ।
Jain Education International
For Private & Personal Use Only
सटीकः । स्तबकः । ॥ ६ ॥
॥२१७॥
www.jainelibrary.org