________________
शास्त्रवाता । तस्याप्यशून्यतायां चप्राश्निकानां बहुत्वतः। प्रभूताशून्यतापत्तिरनिष्टा संप्रसज्यते॥६१॥ सटीकः । समुच्चयः।
स्तबकः। ॥२१६॥
तस्यापि-प्रतिपायस्यापि- अशून्यतायामभ्युगम्यमानायाम् , पाश्निकाना- पर्यनुयोक्तृणाम् , बहुत्वतः-बाहुल्यात् , RATE प्रभूताऽशून्यतापत्तिः- बहूनां ताविकतापत्तिः, अनिष्टा तव, संप्रसज्यते-बलादापतति ॥ ६१॥
इदमेव स्पष्टयतियावतामस्तितन्मानं प्रतिपाद्यास्तथा च ये । सन्ति ते सर्व एवेति प्रभूतानामशून्यता ॥६॥
यावतां प्रमातृणामस्ति तन्मानं- शून्यतासाधक प्रमाणम् , तथा ये प्रतिपाद्यास्ते सर्व एव सन्ति-परमार्थतो न तु। शून्याः, इति हेतोः, प्रभूतानामशून्यतेति । ननु य एव परिशीलितसुगतश्रुतोपनिषद्गलितनिखिलाविद्याकलङ्कः, स एवाशून्यः, तस्यैव च निर्धर्मकसंचिन्मानं मानमशून्यं, परमार्थसत्वात : इतरेषां तु वादि-पतिवादिमाश्निकानां व्यवहारत एव सत्त्वम् । तत एव च साध्य-साधन-दृष्टान्तादिभेदेनोक्तप्रपश्चासत्यतानुमानसंभवः तदुक्तमाचार्येण- "सर्व एवायमनुमानानुमेयव्यवहारः सांकृतः" इत्यादीति चेत् । न, तब तत्वज्ञानिनः शून्यतानुभवस्य त्वयैव श्रद्धाविषयत्वात् । अनुमानेन च प्रागुक्तेन न नीलादिज्ञाने द्विचन्द्रादिज्ञानतुल्यमसत्यत्वं साधयितुं शक्यम् , बाध्यत्वा-वाध्यत्वाभ्यामुभयवैलक्षण्यात् । न च बाध्यबाधकभावो निराकृत एवेति वाच्यम् , व्यवहारसिद्धस्य तस्य निराकर्तुमशक्यत्वात् ; बाधकेन ज्ञानस्य, स्वरूपस्य, विषयस्य, फलस्य वाऽबाधेऽपि बाध्यज्ञानेामाण्यज्ञापनात् । तदुक्तं मूरिणा- “किन्तु ज्ञानस्यासविषयत्वम् , अर्थस्य चासत्पतिभासनं तेन द्वाप्यते" इति । ।२१६॥
JainEducation inhead
For Private Personal use only