________________
अथ न शून्यता नाम काचिद् विविक्ता प्रतिभासते यस्यां प्रमाणान्वेषणं फलवत् स्यात् , किन्तु प्रतिभासोपमत्वं सर्वधर्माणामित्याशङ्कयाहप्रमाणमन्तरेणापि स्यादेवं तत्त्वसंस्थितिः। अन्यथा नेति सुव्यक्तमिदमश्विरचेष्टितम्॥१९॥
प्रमाणमन्तरेणापि- विनापि व्यवस्थापकम् , एवं तत्त्वसंस्थितिः- सर्वधर्माणां मायोपमत्वव्यवस्थितिः, स्यात् । अन्यथा- अनुभूयमानानन्तधर्मात्मकत्वे च, न स्याद् व्यवस्थितिः। इदमीश्वरचेष्टितम्- स्वतन्त्राज्ञामात्रम् । सर्वधर्मराहित्येऽपि मानमवश्यमन्वेषणीयमिति भावः ॥ ५९॥
पराशयमाशङ्कय निराकुरुतेउक्तं विहाय मानं चेच्छून्यतान्यस्य वस्तुनः। शून्यत्वे प्रतिपाद्यस्य ननु व्यर्थः परिश्रमः।६।।
उक्तं शून्यतासाधकं मानं विहाय चेद् यद्यन्यस्य वस्तुनः शून्यता, मानं पुनरशून्यमेवेति न दोष इति भावः, तदा - प्रतिपाद्यस्य- यमुद्दिश्य शून्यतासाधकं मानं प्रयुज्यते, तस्य शून्यत्वे व्यर्थः परिश्रमः प्रकृतप्रयोगस्य; अन्यथा शशशृङ्गमुद्दि-11 श्याप्येतत्पयोग किं न कुरुषे । तथा च सुष्ठुक्तं भट्टेन
“सर्वदा सदुपायानां वादमार्गः प्रवर्तते । अधिकारोऽनुपायत्वाद् न वादे शून्यवादिनः ॥१॥" इति ॥ ६ ॥ तदशून्यतायां दोषमाह
Jain Education
loa
For Private & Personel Use Only
www.jainelibrary.org