________________
शास्त्रवाता
समुच्चयः ॥२१५॥
सा चाविभागरूपाप्यविद्यावशाद् विभक्तरूपेव भासते, तदुक्तम्
सटीकः। " अविभागोऽपि बुद्धयात्मा विपर्यासितदर्शनैः । ग्राह्य-ग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥१॥"
स्तबकः। इति । समस्ताविद्याविलये तु स्वच्छसंविन्मात्रमाभासते; तदुक्तम्" नान्योऽनुभाव्यो बुद्धयास्ति तस्य नानुभवोऽपरः । ग्राह्य-ग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥ १ ॥” इति ॥५६॥
एतन्निराकरणवार्तामाहअत्राप्यभिदधत्यन्ये किमित्थं तत्त्वसाधनम्।प्रमाणं विद्यते किञ्चिदाहोस्विच्छ्रन्यमेव हि ५७
... अत्रापि- शून्यतावादेऽपि, अन्ये- वादिनः, अभिदधति यदुत- किमित्थं तवसाधनं शून्यतातत्त्वसाधनम् , किश्चित् - प्रमाणं-वस्तुसद् विद्यते, आहोस्वित् शून्यमेव हि- न विद्यते प्रमाणम् ? इत्यर्थः ।। ५७॥
पक्षद्वये दोषमाहशून्यं चेत्सुस्थितंतत्त्वमस्तिचेच्छन्यता कथम्?।तस्यैवननुसद्भावादिति सम्यग्विचिन्त्यताम्।
शून्यं चेत् शून्यतायां प्रमाणं, तदा सुस्थित- सम्यग् व्यवस्थित, तत्त्वम् , अवस्तुसता प्रमाणेन प्रमेयव्यवस्थितरित्युपहासः। अस्ति चेत् प्रमाणं तत्साधकम् , तदा कथं शून्यता, तस्यैव - प्रमाणस्य, सद्भावात्- तत्त्वरूपत्वात् सकलपदार्थाभावासिद्धेः, इति सम्यग् विचिन्त्यतां माध्यस्थ्यमवलम्ब्य ।। ५८ ।।
२१५॥
Jan Education Interno
For Private Personel Use Only
FOdiww.jainelibrary.org