SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ततो न नील-द्विचन्द्रादिज्ञानयोः कश्चिद् विशेषः, द्विचन्द्रबद् नीलस्य विचार्यमाणस्यानुपपन्नत्वात् । न चैवं नीलादेमिन्नस्यानुपपत्तेरभेदस्य न्यायमाप्तत्वाज्ज्ञानाद्वैतापत्तिः, न शून्यतेति वाच्यम् : नीलादेविचित्रस्य प्रतिभासे जगतोऽपि चित्रताप्राप्तः, तदुक्तम्- "किं स्यात्सा चित्रतैकस्याम्" इत्यादि । न च नीलाद्यनुपरक्तं प्रकृतिपरिशुद्धज्यो तिर्मात्रमेव तत्त्वमस्तु न शून्यतेति वाच्यम् । तथाभूतज्योतिर्मात्रस्य कदाचनाप्यपतिपत्तेः। नीलादेवभासशून्यतापि न प्रतीISH यत इति चेत् । किं ततः ?, न हि वयं प्रतिभासविरतिलक्षणां शून्यतां ब्रूमः, किन्तु प्रतिभासोपमत्वं सर्वधर्माणाम् ; उक्तं च- "प्रतिभासोपमाः सर्वे धर्माः" इति । प्रतिभासश्च सर्वो भेदा-ऽभेदशून्यः । न हि नीलस्वरूपं सुखाद्यात्मना भिन्नमभिन्न वानुभूयते, अन्यापेक्षत्वात् तथानुभवस्य । न च भेदवेदनमेवैकत्वावेदनम् , एकत्वावेदनस्यैव भेदवेदनत्वप्रसङ्गात् । एतेन 'प्रतिभासे सति कथं शून्यता' इत्यपास्तम् , 'तस्यैकानेकस्वभावयोगतः शून्यता' इति प्रतिपादनात् । तदुक्तमाचार्येण "भावा ये न निरूप्यन्ते तद्रूपं नास्ति तत्वतः । यस्मादेकमनेकं वा रूपं तेषां न विद्यते ॥१॥" इति । ततो बाह्यमाध्यात्मिक वा रूपं न तत्त्वम् , स्थल-परमावादिरूपानुपपत्तेः, किन्तु सांवृतमेव | संवृतिश्च विधाएका लोकसंवृतिमरीचिकादिषु जलभ्रान्तिरूपा, अपरा तत्वसंवृतिः सत्यनीलादिप्रतीतिरूपा, अन्या चाभिसमयसंवृतियोंगिपतिपत्तिरूपा, योगिप्रतिपत्तेरपि ग्राह्य-ग्राहकाकारतया प्रवृत्तेः; उक्तं च भगवद्भिः- "कतमत् संवृतिसत्वं यावल्लोकव्यवहारः" इति । ततो मध्यमक्षणरूपा संविदेव सर्वधर्मरहिता परमार्थसतीति सिद्धम् । आह च-- " मध्यमा प्रतिपत् सैव सैव धर्मनिरात्मता । भूतकोटिश्च सैवेयं तथ्यता सैव शून्यता ॥१॥" इति । Jain Educat i onal For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy