________________
शास्त्रवार्ता- समुच्चयः। ॥२१४॥
सटीकः। स्तबकः।
मादिबुद्धिवत् , आदिना पुत्रमरणग्रहः, 'कुमार्याः स्वमे' इति योज्यते ।
अत्रायममीषां संपदाय:- नीलादयो न परमार्थसद्यवहारानुपातिनः, विशददर्शनावभासित्वात, तिमिरपरिकरित. हगवभासीन्दुद्वयवत् । न च चन्द्रद्वयज्ञानं बाध्यत्वाद् भ्रान्तम् , नीलादिज्ञानं त्वबाध्यत्वाद् न तथेति सांप्रतम् , बाध्यत्वानुपपत्तेः; तथाहि-बाधकेन न विज्ञानस्य तत्कालभावि स्वरूपं बाध्यते, तदानीं तस्य स्वरूपेण प्रतिधासनात् । नाप्युत्तरकालम् , क्षणिकत्वेन तस्य स्वयमेवोत्तरकालेऽभावात् । नापि प्रमेयं प्रतिभासमानेन रूपेण बाध्यते, तस्य विशदप्रतिभासादेवाभावासिद्धेः। अप्रतिभासमानेन तु रूपेण स्वत एव बाधः । नापि प्रवृत्तिरुत्पन्ना बाध्यते, उत्पन्नत्वादेवासत्ताऽयोगात्; अनुत्पन्नायास्तु स्वत एव बाधः। किश्च, बाधकं न बाध्यापेक्षया भिन्नसंतानम् , अतिप्रसङ्गात् । एकसंतानमपि न तदेककालम् , असंभवात् । नापि भिन्नकालमेकार्यम् , उत्तरघटज्ञानस्य पूर्वघटज्ञानबाधकतापत्तेः । नापि भिन्नार्थम् , उत्तरपटज्ञानस्य तथात्वापत्तेः। नाप्यनुपलब्धिर्वाध्यज्ञानसमानकाला तदाधिका, तस्या असिद्धेः । नाप्युत्तरकालभाविनी बाध्यज्ञानैकार्थविषया, एकविषयकस्य तदर्थसाधकत्वेनाबाधकत्वात् । नापि विभिन्न विषया, तस्यास्तदानीं स्त्रविषयसाधकत्वेन बाध्यज्ञानविषयाभावासाधकत्वात् । न च दुष्टकारणप्रभत्वेनेन्दुद्वयधियोऽसत्यार्थविषयत्वावगमो बाध्यत्वम् , असिद्धेः, इन्द्रियेण दोषाग्रहणात् । न च समानसामग्रीकस्य नरान्तरस्य तदग्रहणादितरत्र दुष्टकारणानुपानम् , तिमिराभावाद् नरान्तरे सामग्रीसाम्यासिद्धः । न च मिथ्यारूपत्वेन तत्र दुष्टकारणजन्यत्वानुमानम् , इतरेतराश्रयात् । न चेन्दुद्वयज्ञानस्य विसंवादित्वादसत्यत्वम्, समानजाती| यतद्विज्ञानानुत्पत्तिरूपविसंवादस्य यावत्तिमिरमसिद्धेः, विजातीयज्ञानोत्पत्तेविसंवादत्वे च स्तम्भादिप्रतिभासेऽतिप्रसङ्गात्
२१४॥
AR
Jan Educationinten
For Private
Personal Use Only
www.jainelibrary.org