SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ एतदेव प्रकटयन्नाह - नित्यमर्थक्रियाभावात्क्रमाक्रमविरोधतः । अनित्यमपि चोत्पादव्ययाभावान्न जातुचित् ॥५५॥ क्रमाक्रमविरोधत:- क्रमवद्विज्ञानादिकार्यकारित्वे भेदप्रसङ्गात्, अक्रमवत्कार्यकारित्वे चैकदा सर्वकार्योत्पत्तेः, अर्थक्रिया भावादनित्यं वस्तु न युक्तम् । अनित्यमप्युत्पाद-व्ययाभावाज्जातुचिद् न युक्तम् । नहि तौ स्वतः परतः, उभाभ्याम्, अनिमितौ वा संभवतः । आद्ये, कारणापेक्षा भावेन देशादिनियमाप्रसक्तेः । द्वितीयेऽपि सच्चै कारणवदुत्पत्तिविरोधात् असवे खरविषाणवदुत्पाद-नाशायोगात् उभयस्वभावत्वे च विरोधात् । तृतीये चोभयदोषानुषङ्गात्, “प्रत्येकं यो भवेद् दोषो द्वयोर्भावे कथं न सः ?" इत्युक्तत्वात् । चतुर्थे चानभ्युपगमात् । तदुक्तम् "न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः । उत्पन्ना जातु विद्यन्ते भावाः कचन केचनं ॥ १ ॥” इति ॥ ५५ ॥ नन्वेवं कथं पुत्रोत्पादज्ञाने सुखम्, तद्ध्वंसे च ज्ञाते दुःखम् ? इत्यत आह उत्पाद - व्ययबुद्धिश्च भ्रान्तानन्दादिकारणम् । कुमार्याः स्वप्नवज्ज्ञेया पुत्रजन्मादिबुद्धिवत् ५६ उत्पाद - व्ययबुद्धिश्च लौकिकी, परमार्थेन भ्रान्ता- न वस्तुसती । किंवत् १ इत्याह- कुमार्याः स्त्रमवत्- स्वापदशायामकृतसंभोगायाः कन्यायाः संभोगानुभववत् । ईदृश्यपि साऽऽनन्दादिकारणम्, आदिना शोकग्रहः । किंवत् ? इत्याह-- पुत्रज१ नागार्जुन विरचिते माध्यमिककारिका ग्रन्थे प्रत्ययपरीक्षाप्रकरणे श्लो० १ । Jain Education tional For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy