________________
शास्त्रवार्ता
समुच्चयः । ॥२१३॥
बाह्यार्थपरिष्वङ्गपरित्यागाय, सामान्यतो विनेयानाश्रित्योक्तम् । विशेषविषयमाह- यद्वा, अईत:- ज्ञाननयावधारणयोग्यान् कांश्चिद् विनेयानतिनिपुणानाश्रित्य तद्देशना - ज्ञानवा ददेशना ।। ५२ ।।
न चैतदुक्तं बुद्धाकृतं न युक्तमित्याह
न चैतदपि न न्याय्यं यतो बुद्धो महामुनिः । सुवैद्यवद् विना कार्य द्रव्यासत्यं न भाषते ॥ ५३ ॥
न चैतदपि - अनन्तरमुक्तम्, न न्याय्यं न सांप्रतमिति वाच्यम्, यतो बुद्धो महामुनिः - विदिततत्त्वो निरुपधिपरदुःखमहाणेच्छामूलक देशनाप्रवृत्तिशाली च परैरिष्यते, अतोऽयं सुवैद्यवत् कार्य बिना - परहितानुबन्धि प्रयोजनं विना, न भाषते द्रव्यासत्यम् । यथा हि सुवैद्यः कटुकमप्यौषधं कटुकौषधपानभीतस्य परस्य प्रवृत्तयेऽकटुकमपि वदन् नानाप्तः स्यात्, तथा बुद्धोsयक्षणिक रूपं ज्ञप्तिमात्रा स्वभावं च विनेयमतिपरिष्काराय तथा वदन्नपि नानाप्तः स्यात्; अन्यथा तु स्यादेव । तथा च तदासत्वे तदेशनाया अत्र तात्पर्यम्, अन्यथा तु तस्यानाप्तत्वमेवेति भावः ॥ ५३ ॥
वार्तान्तिरमाह
ब्रुवते शून्यमन्ये तु सर्वमेव विचक्षणाः । न नित्यं नाप्यनित्यं यद्वस्तु युक्त्योपपद्यते ॥५४॥ अन्ये तु विचक्षणाः- वितण्डापण्डिता माध्यमिकाः, सर्वमेव वस्तु शून्यं ब्रुवते । कुतः १ इत्याह- यद् - यस्मात् वस्तु युक्त्या विचार्यमाणं न नित्यं नाप्यनित्यमुपपद्यते ॥ ५५ ॥
Jain Educationational
For Private & Personal Use Only
सटीकः । स्तबकः ।
॥ ६ ॥
॥२१३॥
www.jainelibrary.org