________________
नयनादि न कृतं तस्यार्थक्रियाकारित्वाभावादसत्वम्, अन्ततस्तथासिद्धज्ञानज्ञेयत्वादिपर्यायरूपाया अध्यर्थक्रियायास्तेन करणादिति द्रष्टव्यम् ॥ ५० ॥
इतस्ततो नोडयनं विधातुं पक्षी समर्थः सुगतात्मजोऽयम् । विसृत्वरस्तार्किकतर्कशक्त्या यतो विलूनः क्षणिकत्वपक्षः ॥ १ ॥ निरीक्ष्य साक्षादवलम्ब्यमानं परैर्विशीर्ण क्षणिकत्वपक्षम् । स्याद्वादविद्यामवलम्बनं भोः श्रयन्तु विज्ञाः ! सुदृढं हिताय || २ || क्षणिकत्ववादतात्पर्यविषयवार्तामाह
अन्ये त्वभिदधत्येवमेतदास्थानिवृत्तये । क्षणिकं सर्वमेवेति बुद्धेनोक्तं न तत्त्वतः ॥५१॥ अन्ये तु - मध्यस्थाः, एवमभिदधति यदुत - एतदास्यानिवृत्तये- रागनिबन्धनविषयनित्यत्ववासनापरित्यागाय, 'क्षणिकं सर्वमेव' इति बुद्धेनोक्तम्, न तस्यतः - न यथाश्रुततस्त्वबोधनाभिप्रायेण । उच्यते चानित्यताभावनाभावनायैवमस्मदीयैरपि तदुक्तम्
" यत्मातस्तद् न मध्याह्ने यद् मध्याह्ने न तन्निशि । निरीक्ष्यते भवेऽस्मिन् हि पदार्थानामनित्यता ॥ १ ॥ " इति ॥ ५१ ॥ विज्ञानवादतात्पर्यविषयप्रतिपादनायाहविज्ञानमात्रमप्येवं बाह्यसङ्गनिवृत्तये । विनेयान् कांश्चिदाश्रित्य यद्वा तद्देशनार्हतः॥५२॥ एवं क्षणिकत्ववत् विज्ञानमात्रमपि, ज्ञानातिरिक्तस्यालीकत्वज्ञाने तन्मात्रप्रतिबन्धेन बाह्यसङ्गनिवृत्तये धन-धान्यादि
Jain Education ational
For Private & Personal Use Only
www.jainelibrary.org