SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । ॥२१२॥ Jain Education तज्ज्ञानं स्वभावः, नापि कार्यम्, न चान्येन गम्य इति यावत् तदूपविशेषाभावात् । न चार्थक्रियालक्षणसच्चेन क्षणिकत्वानुमानमपि युक्तम्, ततः क्षणावस्थितिमात्र साधने सिद्धसाधनात्, क्षणावस्थितिनिबन्धनत्वाद् वहुक्षणस्थितेः, क्षणादूर्ध्वमभावस्य च तेन सह प्रतिबन्धाग्रेण साधयितुमशक्यत्वादिति भावः ॥ ४८ ॥ अथ नित्यस्यार्थक्रिया क्षमत्वात् पारिशेष्यात् क्षणिकत्वं सेत्स्यतीत्याशङ्कयाह - नित्यस्यार्थक्रियायोगोऽप्येवं युक्त्या न गम्यते । सर्वमेवाविशेषेण विज्ञानं क्षणिकं यतः॥४९॥ एवं सति नित्यस्यार्थक्रियायोगोऽपि न गम्यते युक्त्या - नित्यस्यैवाज्ञानात् । अत्र हेतुमाह यतः सर्वमेव विज्ञानमविशेषेण क्षणिकम् । एवं च बहुक्षणस्थायित्वरूपं नित्यत्वं कथं बहुक्षणाग्रहे सुग्रहम् । इति भावः ।। ४९ । ? न चार्थक्रियाभावोऽप्यक्षणिके, इति वस्तुस्थितिमाह- तथाचित्रस्वभावत्वान्न चार्थस्य न युज्यते । अर्थक्रिया ननु न्यायात्क्रमाक्रमविभावनी ॥५०॥ तथाचित्रस्वभावत्वात् क्रमवत्परिणामानुविद्धाक्रमवद्द्रव्यरूपत्वात्, न चार्थस्य न युज्यतेऽर्थक्रिया - किन्तु युज्यते, ननु - निश्चितम् न्यायात्- अनुभवसहितात् तर्कात् । कीदृशी ? इत्याह- क्रमाक्रमविभावनी- युगपदयुगपदुत्पत्तिका सुखदुःख ज्ञानजननजलाद्यानयनादिरूपा । तत्र च काचिदस्मदादिसंवेद्या, अन्या चातादृशी । तेन न येन घटेन कदापि जला२ ज. प्रणे सा । ३ ख.ग.घ.च. ज. 'भावना' । ४. ख. ग. घ. च. 'दाचिन' । १ ज. 'म्यत इ' । ational For Private & Personal Use Only सटीकः । स्तवकः । ॥ ६ ॥ ॥२१२ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy