________________
क्षणिकत्वं कथं नु ? - नैव जानाति, वस्तुत्वात् तस्य, ज्ञानस्य च वस्तुग्राहकत्वात् ॥ ४६ ॥
जानात्येव वस्तुदर्शनं क्षणिकत्वमपि स्वरूपतोऽविकल्पस्वभावत्वात्, विकल्पयति तु न, इति पराशयमाह -
तस्यैव तत्स्वभावात्स्वात्मनैव तदुद्भवात् । यथा नीलादि
ताद्रूप्यान्नतन्मिथ्यात्वसंशयात्४७
तस्यैव - अर्थस्य तत्स्वभावत्वात् क्षणिकत्वस्वभावत्वात्, स्वात्मनैव- ज्ञानात्मनैव, जानाति क्षणिकत्वम् । कुतः १ तदुद्भवात् क्षणिकस्वभावादर्थादुत्पत्तेः । निदर्शनमाह- यथा नीलादि जानाति ताद्रूप्यात् विषयसारूप्यात्, न तु विकल्पविधया, तथेदमपीति भावः । अत्रोत्तरम् - नैतद् यदुक्तं परेण, तन्नीत्यैत्र मिध्यात्वसंशयात्- क्षणिकत्वबोधे सांख्यानामालोचने शुक्ले पीतदर्शनादुत्तरकाले तत्र पीतानिश्चयात् । प्राक् पीतानालोचनमनुमीयते चेत् । क्षणिकत्वदर्शनेऽपि तुल्ययोगक्षेममेतदिति ॥ ४७ ॥
स्वानुमानतोऽपि न क्षणिकत्वबोध इत्याह-
न चापि स्वानुमानेन धर्मभेदस्य संभवात् । लिङ्गधर्मातिपाताच्च तत्स्वभावाद्ययोगतः४८ न चापि स्वानुमानेन जानाति क्षणिकत्वं यथा मद्रूपमनित्यं तथाऽयमपीति । कुतः १ इत्याह- धर्मभेदस्य संभवात्चेतनेतररूपधर्मभेदोपपत्तेः किञ्चित्ताद्रूप्येऽपि तथा ताद्रूप्याभावेन साधारण्या व्याप्तेर विकल्पनात् । दोषान्तरमाह - लिङ्गधगतिपाताच्च लिङ्गरूपातिलङ्घनाच्च तदात्मन एवं स्वानुमानपक्षे । कुतः १ इत्याह- तत्स्वभावाद्ययोगतः तस्यार्थस्य न
Jain Educatemational
For Private & Personal Use Only
www.jainelibrary.org