________________
बस मनाया
शासवार्ता ज्ञानेन गृह्यते चार्थो न चापि परदर्शने । तदभावे तु तद्भावात्कदाचिदपि तत्त्वतः ॥४५॥ सटीकः । समुपयामि
स्तवकः। MR न च परदशेने- बौद्धमते, ज्ञानेनार्थोऽपि-नीलादिरपि, गृह्यते-ग्रहीतुं शक्यते, तत्वतः- परमार्थतः, कदाचिदपि ।
कुतः १ इत्याह- तदभावे तु तद्भावात्- नीलाद्युत्पत्त्यनन्तरमेव ज्ञानोत्पत्तेः, अर्थ-ज्ञानयोर्हेतु-हेतुमद्भावाभ्युपगमात् , तस्य च पौवापर्यनियतत्वात् । एवं च वर्तमानसंबन्धित्वावगमोऽर्थस्य क्षणद्वयावस्थितत्वं विना दुर्घटः । न च जनकोऽर्थो वर्तमानकालतया नाक्षसंविदि प्रतिभाति, किन्तु तस्यां तत्समानकालभाब्याकारः, तस्य च तथावभासाद् वर्तमानार्थावगमोक्तिरिति वाच्यम् :ज्ञानकाले बहिरवभासमानस्य नीलादेर्शानाकारत्वासिद्धः, अन्यथाऽन्तरवभासमानस्य सुखादेरप्याकारतामसक्तिः, इति ज्ञानसत्तेवोत्सीदेत् । न च न गृह्यमाणस्य ज्ञानसमानसमयस्य जनकता, जनकस्य च क्षणिकत्वेन वर्तमानतयाऽतीतस्य न प्रतिभासः, इति समारोपिताकारग्राहि सर्वमेव ज्ञानमिति सांप्रतम् ; नील-द्विचन्द्रज्ञानयोरविशेषापत्तेः । न च बाद्यार्थवादिना तयोरविशेषोऽभ्युपगन्तव्यः, प्रमाणा-ऽप्रमाणविभागविलयप्रसक्तः । न च ज्ञाना-ऽर्थयोरेकसामग्रीजन्ययोः सहभावित्वेन वर्तमानग्रहणं क्षणिकत्वेऽपि वैभाषिकमताश्रयणेनाभ्युपगन्तव्यम् , क्रियानियमस्य कर्मशक्तिनिमित्तत्वेन व्यवस्थापितत्वादिति ॥४५॥
अभ्युपगम्याप्यर्थग्रहं दोषान्तरमाह-- ग्रहणेऽपि यदा ज्ञानमपैत्युत्पत्त्यनन्तरम्। तदा तत्तस्य जानाति क्षणिकत्वं कथं ननु?॥४६॥ ।
ग्रहणेऽप्यर्थस्य यदा ज्ञानमुदेति तदा तद्-ग्राह्यम् , उत्पच्यनन्तरं- उत्पत्तिनाशकाले, अपैति- नश्यति । अतस्तस्य ॥२१॥
PICHOTA
Jain Education Intern
For Private Personal Use Only
aol.jainelibrary.org
म