________________
Jain Education Intern
वान्भवान् तदा सः गृह्यमाणः क्षणः, अपरेण प्राग्गृहीतेन क्षणेन तुल्यः -- सदृश: । 'इति' इति शेषः, कुतो गतिः - कथं परिच्छित्तिः ? - उपायाभावाद् न कथञ्चिदित्यर्थः ॥ ४२ ॥
तदगतौ को दोषः ? इत्यत आह
तथागतेरभावे च वचस्तुच्छमिदं ननु । सदृशेनावरुद्धत्वात्तद्ग्रहादि
तदग्रहः ॥४३॥
तथागते:- भेदपरिच्छित्तेः, अभावे च सति इदं प्रागुक्तम्, भवतो वचः, 'ननु' इत्याक्षेपे, तुच्छं- असारम्, अन्त्रयाबोधकत्वात् । किम् ? इत्याह- यदुत 'सहशेनावरुद्धत्वात् तद्ग्रहाद्धि तदग्रहः' इति ॥ ४३ ॥
दर्शने भेदानुल्लेखेऽपि विकल्पे तदुल्लेखात् सादृश्य विकल्प संभवात् कथमुक्तवच सोऽनुपपत्तिः ? इत्याशङ्कायामाह - भावे वास्या बलादेकमनेकग्रहणात्मकम् । अन्वयि ज्ञानमेष्टव्यं सर्वं तत्क्षणिकं कुतः ? ॥४४॥ भावे वाऽस्याः- भेदगतेः, बलात् - अस्वरसादपि, अनेकग्रहणात्मकं - पूर्वापरग्रहणरूपम्, एकमन्वयि ज्ञानमेष्टव्यम्, अन्यथा भेदग्रहदशायां प्रतियोगिग्रहाभावात् तद्ग्रहानुपपत्तेः, मदीर्घपर्यालोचनानुपपतेव । यत एवम् तत् तस्मात् सर्व क्षणिकं कुतः, उक्तज्ञानस्यैवान्वयैकत्वात् १ ॥ ४४ ॥
प्रसङ्गात् क्षणिकत्वे दोषान्तरमाह
१ अत्रैव स्तबके कारिका ४०
For Private & Personal Use Only
w.jainelibrary.org