________________
शाखवार्ताशास्त्रवात ॥२१०||
BH
॥६॥
एतदप्यसदेवेति सदृशो भिन्न एव यत्। भेदाग्रहे कथं तस्य तत्स्वभावत्वतो ग्रहः?॥४१॥ सीकः ।
स्तबकः। ____एतदपि- परोक्तम् , असदेव- अनुपपद्यमानार्थकमेव, यद्- यस्मात् , सदृशो भिन्न एव- भेदघटित एव । तद्भिन्नत्वे सति तद्वृत्तिधर्मवत्वं हि सादृश्यम् । तवृत्तिश्च धर्मो विधिरूपो निषेधरूपो वेत्यन्यदेतत् । ततः किम् ? इत्याह-भेदाग्रहे सति, कथं तस्य- सदृशस्य, ग्रहः । कुतः? इत्याह- तत्स्वभावत्वतः- भेदघटितस्वभावत्वात् । न च तद्वटितं तदग्रहे गृह्यते, जलत्वाग्रहे जलत्वस्वभावत्वाग्रहदर्शनात् ॥ ४१ ।।
पराभिप्रायमाशङ्कतेतदर्थनियतोऽसौ यद्भेदमन्याग्रहाद्धि तत् । न गृह्णातीति चेत्तुल्यः सोऽपरेण कुतो गतिः ?
तदर्थनियत:- अधिकृतकक्षणार्थविषय इत्यर्थः, असौ-ग्रहः सदृशपरिच्छेदः, यद्- यस्मात् , भेद-नानात्वलक्षणम् , तत्- तस्मात् , अन्याग्रहादि- तदा प्रतियोग्यग्रहणादेव, न गृह्णाप्ति, तत्त्वतस्त्वस्त्येव स वस्तुतः सदृशग्रहे । एवं हि तन्नाशग्रहप्रतिबन्धको दोषः। न तु सदृशत्वग्रहोऽप्यपेक्षितः । न हि शुक्तौ रजतसारूप्यग्रहोऽप्युल्लिखितरजतभेद एव रजतत्वभ्रमजनकः, रजतभेदग्रहे रजतत्वभ्रपस्यैवाभावात् । किन्तु वरूपत एव, तद्वदत्रापीति भावः । अत्र शुक्तौ रजतसहचरितचाकचिक्यादिधर्मवत्त्वग्रहादेव रजतभ्रमः, प्रकृते तु सदृशदर्शनं निर्विकल्पतयाऽसत्कल्पं न नाशग्रहविरोधि, अतिप्रसङ्गात् । अस्तु वा यथा कथञ्चिदेतत् , तथापि सादृश्यस्य दुर्यहत्वात् तदुक्तेरेवानुपपत्तिः, इत्यभिप्रायवानुत्तरयति- इति चेत्- ययुक्ताभिप्राय- ॥२१॥
उमा
Jain Education
a
l
For Private Personel Use Only
www.jainelibrary.org