SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ शाखवार्ताशास्त्रवात ॥२१०|| BH ॥६॥ एतदप्यसदेवेति सदृशो भिन्न एव यत्। भेदाग्रहे कथं तस्य तत्स्वभावत्वतो ग्रहः?॥४१॥ सीकः । स्तबकः। ____एतदपि- परोक्तम् , असदेव- अनुपपद्यमानार्थकमेव, यद्- यस्मात् , सदृशो भिन्न एव- भेदघटित एव । तद्भिन्नत्वे सति तद्वृत्तिधर्मवत्वं हि सादृश्यम् । तवृत्तिश्च धर्मो विधिरूपो निषेधरूपो वेत्यन्यदेतत् । ततः किम् ? इत्याह-भेदाग्रहे सति, कथं तस्य- सदृशस्य, ग्रहः । कुतः? इत्याह- तत्स्वभावत्वतः- भेदघटितस्वभावत्वात् । न च तद्वटितं तदग्रहे गृह्यते, जलत्वाग्रहे जलत्वस्वभावत्वाग्रहदर्शनात् ॥ ४१ ।। पराभिप्रायमाशङ्कतेतदर्थनियतोऽसौ यद्भेदमन्याग्रहाद्धि तत् । न गृह्णातीति चेत्तुल्यः सोऽपरेण कुतो गतिः ? तदर्थनियत:- अधिकृतकक्षणार्थविषय इत्यर्थः, असौ-ग्रहः सदृशपरिच्छेदः, यद्- यस्मात् , भेद-नानात्वलक्षणम् , तत्- तस्मात् , अन्याग्रहादि- तदा प्रतियोग्यग्रहणादेव, न गृह्णाप्ति, तत्त्वतस्त्वस्त्येव स वस्तुतः सदृशग्रहे । एवं हि तन्नाशग्रहप्रतिबन्धको दोषः। न तु सदृशत्वग्रहोऽप्यपेक्षितः । न हि शुक्तौ रजतसारूप्यग्रहोऽप्युल्लिखितरजतभेद एव रजतत्वभ्रमजनकः, रजतभेदग्रहे रजतत्वभ्रपस्यैवाभावात् । किन्तु वरूपत एव, तद्वदत्रापीति भावः । अत्र शुक्तौ रजतसहचरितचाकचिक्यादिधर्मवत्त्वग्रहादेव रजतभ्रमः, प्रकृते तु सदृशदर्शनं निर्विकल्पतयाऽसत्कल्पं न नाशग्रहविरोधि, अतिप्रसङ्गात् । अस्तु वा यथा कथञ्चिदेतत् , तथापि सादृश्यस्य दुर्यहत्वात् तदुक्तेरेवानुपपत्तिः, इत्यभिप्रायवानुत्तरयति- इति चेत्- ययुक्ताभिप्राय- ॥२१॥ उमा Jain Education a l For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy