________________
एतदेव समर्थयन्नाहआदौ क्षयस्वभावे च तत्रान्ते दर्शनं कथम् ?।तुल्यापरापरोत्पत्तिविप्रलम्भाद्यथोदितम्३९
आदौ-प्रथमक्षण एव, क्षयस्वभावे च-नाशस्वभावे च, तत्र- वस्तुन्यभ्युपगम्यमाने, अन्ते दर्शनं कथम् ?आदावेव किं न तदर्शनम् ? इति भावः। पराभिप्रायमाह- तुल्यापरापरोत्पत्तिविमलम्भात्- सदृशोत्तरोत्तरक्षणप्रतिरोधात् अन्त एव तद्दर्शनम् , नादौ, प्रतिबन्धकसत्वादिति । अत्र स्वाभियुक्तसम्मतिमाह- यथोदितं पूर्वग्रन्थे वृद्धैः॥ ३९ ॥
किमुदितम् ? इत्याह'अन्ते क्षयेक्षणादादौ क्षयोऽदृष्टोऽनुमीयते । सदृशेनावरुद्धत्वात्तद्ग्रहाद्धि तदग्रहः ॥४०॥
___अन्ते क्षयेक्षणात्- अन्ते नाशदर्शनात् , आदौ- उत्पत्तिकाले, क्षयः- नाशः, अदृष्टोऽप्यनुमीयते, अनश्वरस्यान्तेऽपि तदयोगात् । कथं तर्हि मार तदग्रहः ? इत्याह- सदृशेन- तुल्यक्षणेन, अवरुद्धत्वात् । तद्ग्रहाद्धि- सदृशग्रहादेव, तदग्रहःआद्यक्षयाग्रहः। अत्र 'घटोत्पत्तिक्षणो घटध्वंसाधिकरणः, घटध्वंसाधिकरणक्षणपूर्वक्षणत्वात्' इत्यनुमाने घटोत्पत्तिप्राच्यक्षणे व्यभिचारः, हेतौ घटोत्पत्त्यपूर्वत्वविशेषणे च संतानेन ब्यभिचार इति दूषणं स्फुटमेवेति ॥ ४०॥
तदग्रहहेतुं दूषयन्नाह ग्रन्धकारः१ ज, 'ह ए'।
बाबा
Jain Education
!
For Private & Personel Use Only
www.jainelibrary.org