________________
शास्त्रवातोसमुच्चयः ॥२०९॥
सटीकः। स्तबकः। ॥६॥
चित्रम्' इति प्रतीतेस्तत्तदवच्छेदेन पर्यापपर्याप्ततया स्वरूपतोऽपि तस्यैकानेकात्मकस्य युक्तत्वात । एवं हि चित्रप्रतिभासे नील- पीतादिमत्त्वग्रहहेतुत्वमपि न कल्पनीयम् , पनसमात्रदेशावच्छेदेन 'वनम्' इति बुद्ध्यभावस्येव नीलभागमात्रावच्छेदेन चित्रप्रतिभासाभावस्य विषयाभावादेवोपपत्तेः, तद्देशेनाचित्रादिधियश्च नयाधीनत्वात् । तदिदमाह सम्मतिटीकाकार:- “अत एवैकानेकरूपत्वाच्चित्ररूपस्यैकावयवसहितेऽवयविन्युपलभ्यमाने शेषावयवाऽऽवरणे चित्रप्रतिभासाभाव उपपत्तिमान् , सर्वथा त्वेकरूपत्वे तत्रापि चित्रप्रतिभासः स्यात् , अवयविव्याप्त्या तद्रूपस्य वृत्तेः । न चावयवनानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं जनयति, इति तत्र सहकार्यभावाचित्रप्रतिभासानुत्पत्तिरिति वाच्यम्; अवयविनोऽप्यनुपलब्धिप्रसङ्गात् । न हि चाक्षुषप्रतिपस्याऽगृह्यमाणरूपस्यावयविनो वायोरिव ग्रहणं दृष्टम् । न च चित्ररूपव्यतिरेकेणापरं तत्र रूपमात्रमस्ति, यतस्तत्पतिपच्या पटग्रहणं भवेत्" इत्यादि । तदेवं चित्ररूपवत् सिद्ध नित्यानित्यत्वादिरूपेणकानेक वस्त्विति परिभावनीयं सुधीभिः । | विस्तरस्तु स्याद्वादरहस्ये ॥ ३७॥
'क्षयेक्षणात्' इति तुर्यहेतुं दुषयन्नाह| अन्ते क्षयेक्षणं चाद्यक्षणक्षयप्रसाधनम् । तस्यैव तत्स्वभावत्वायुज्यते न कदाचन ॥३८॥
अन्ते क्षयेक्षणं च- अन्ते नाशदर्शनं च, आद्यक्षणक्षयप्रसाधनं- प्रथमक्षणे वस्तुनः सर्वथा नाशस्यानुपापकं यदुक्तम् , तस्यैव- वस्तुनः, तत्स्वभावत्वात्- अन्त एव क्षयस्वभावत्वात् । न युज्यते कदाचन तत् , अन्यथाऽतत्स्वभावत्वापत्तेः॥३८॥
॥२०९॥
JainEducation Intern
For Private
Personel Use Only
Tww.jainelibrary.org