________________
रा
स्यादेतत् , अव्याप्यवृत्तिनीलादिकल्पे तादृग्नीलादिप्रत्यक्षे द्रव्यतत्समवेतप्रत्यक्षत्वावच्छिन्न प्रति, अव्याप्यवृत्तिद्रव्यसमवेतप्रत्यक्षत्वावच्छिन्नं पति वा चक्षुःसंयोगावच्छेदकावच्छिन्नसमवायसंवन्धावच्छिन्नाधारतासंनिकों निरूपकतया विषयनिष्ठो हेतुः संयोगादिप्रत्यक्षस्थले क्लुप्त एव । न च नीलकपालिकावच्छेदेन चक्षुःसंनिकर्षस्य तत्समवेतनील-पीतोभयकपालावच्छिन्नत्वनियमात् तदवच्छेदेन संनिकर्षे पीतादिग्रहापत्तिः, संयोगव्यक्तिर्यदेशव्यापिनी तत्र परम्परया तद्देश एवा. वच्छेदको न तु संपूर्णोऽवयव इत्यभ्युपगमाद् न दोषः । नीलविशिष्टपीतादिना नीलपीतोभयादिना वाऽवान्तरचित्रधीसंभवाद् मावान्तरचित्रसिद्धिः,चित्रत्वेन सममवान्तरचित्रत्वसामानाधिकरण्यमत्ययस्यापि नील-पीतविशिष्टचित्रत्वसामानाधिकरण्यावगाहित्वात् , नीलाद्यविशेषितनीलादिभेदाश्रयरूपसमुदायेनानुगतचित्रप्रतीतिसंभवाच्चित्रत्वसामान्यमप्यसिद्धमेवेति ।
मैवम् , अनुभवसिद्धस्य चित्रत्वस्योक्तरीत्यापलापे नीलादिप्रतीतेरपि भेदविशेषावगाहित्वेन नीलत्वादेरप्यपलापप्रसङ्गात् । अस्तु तर्हि तत्र तत्रावयविनि नीलत्वादितत्तच्चित्रत्वाश्रयमेकमेव व्याप्यवृत्तिरूपादिकं लाघवानीलत्वादिकमेव तत्राव्याप्यवृत्तिगुणविशेषाणामिव जातिविशेषाणामप्यव्याप्यवृत्तिवेविरोधात , परस्परव्यभिचारिजात्योः सामानाधिकरण्यस्य बाधकविरहसत्तर्कममाणसिद्धस्यानभ्युपगममात्रेण निराकरणायोगात् । अत एव ककारादिषु सर्वेषु ताराद्याकारानुगतमतिरुपपद्यते, एकस्यैव तारत्वादेः ककारादिवृत्तित्वात् , उपपद्यते न मात-पाषाण-सौवर्णघटादावनुगतानुगतमतिरिति स्वतन्त्र एव पन्था इति चेत् । सत्यम् , एवमप्येकानेकवस्तुरूपाव्याहतावपि सत्यामपि चित्रत्वग्राहकसामग्यां नीलभागावच्छेदेन 'इह न
१ज. 'माद् नी'।
SRANAMAHARA
JainEducation
For Private
Personel Use Only