SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ शाखवाती - समुच्चयः । ॥ २०८॥ वातू । 'इदमुभयात्मकम्' इत्युभयत्वविशिष्टेदे त्वस्यैकत्वपर्याप्त्यनवच्छेदकत्वेन न स्यात्, 'इदमेकं रूपम्' इति तु शुद्धेस्वस्यैकत्वपर्याप्त्यवच्छेदकत्वेन स्यादिति चेत् । स्यादेव यदि मदीर्घाध्यवसायिना तेनेदंत्वमेकत्वं च विविच्य न पर्यालोच्येतेति दिग् । व्याप्यवसिशुक्लादिनानारूपवदवयव्युपगमे च शुक्लाद्युपलम्भे नीलाद्युपलम्भापत्तिरेव दोषः तदाह- सम्मतिटी - काकारः- “ आश्रयव्यापित्वेऽप्ये कावयव सहितेऽप्यवयविन्युपलभ्यमानेऽपरावयवानुपलब्धावप्यनेकरूपप्रतिपत्तिः स्यात्, सर्वरूपाणामाश्रयव्यापित्वात्" इति । चित्रैकरूपप्रतिपत्तिरप्यनुभवविरुद्धा, शुक्लादिरूपाणामपि निर्विगानं तत्र प्रतीतेः; यदाहु:- " न च चित्रपटादावपास्तशुक्लादिविशेषं रूपमात्रं तदुपलम्भान्यथानुपपत्त्याऽस्तीत्यभ्युपगन्तव्यम्, कथम् ?, 'चित्ररूपः पट:' इति प्रतिभासाभावप्रसक्तेः" इति । किञ्च, एवं शुक्लावयवावच्छेदेनापि चित्रोपलम्भः स्यात् । न च चित्रत्वग्रहे परम्परयावयवगतनीलेतररूप-पीतेतररूपादिमत्त्वग्रहो हेतु:, अत एव 'त्र्यणुकचित्रं चक्षुषा न गृह्यते' इत्याचार्याः । न च नीररूपत्वावच्छिन्नप्रकारताकग्रहो न हेतुः, नीलत्व-पीतत्वादिनाऽवयवगतनील- पीतादिग्रहेऽप्यवयविचित्रमत्यक्षादिति वाच्यम्; विलक्षणचित्रमत्यक्षे तेन तेन रूपेण तत्तद्ग्रहस्यापि हेतुत्वात् । वस्तुतो नीलेतररूपत्वादिव्याप्यत्वेन नीलेतररूपत्व-पीतत्वाद्यननुगमाद् न क्षतिरिति चेत् । न व्यणुकचित्ररूपाग्रहे चतुरणुकचित्रप्रत्यक्षानुपपत्तेः नीलेतररूप-पीतेतररूपादिमदवयवावच्छेदेनेन्द्रियसंनिकर्षस्यावयवनीलादिगतनीलत्वादिग्रहविरोधिदोषाभावानां च हेतुत्वे गौरवात् । अवयविनि साक्षानीलपीतादिग्रहस्य तद्ग्रहहेतुत्वे च तत्र नीलादिसिद्धिः, तद्ग्रहस्य भ्रमत्वायोगात् । Jain Education International For Private & Personal Use Only सटीकः । स्तबकः । ॥ ६ ॥ ॥२०८॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy